________________ प्रकरणम् ] सिद्धहैमबृहत्प्रक्रिया. 268 कवर्गकस्वरवति // 2 / 3 / 76 // पूर्वपदस्थाद्रपृवर्णात् परस्य कवर्गवति एकस्वरवति चार्थादुत्तरपदान्तस्य तथा नागमस्य स्यादेश्च नकारस्य णः स्यात् , न चेत्स नकारः पकशब्दसंबंधी भवति / वोत्तरपदान्तेत्यादिना विकल्पे प्राप्ते नित्यार्थ वचनम् / पुनर्भूणाम् / वर्षाभूः / भेक्यां पुनर्नवायां स्त्री वर्षाभूदर्दुरे पुमान् ' इति कोशात् पुनर्नवायां नित्यस्त्रीत्वात् हे वर्षाभु / दर्दुरजातौ नित्यत्रीत्वाभावात् हे वर्षाभूः / स्वयंभूः पुंवत् / स्वसा / स्त्रियां नृत इत्यत्र अस्वस्रादेरिति निषेधान्न डीः / स्वस्रादयः सप्त तत्रेवोक्ताः / स्वसारौ / स्वसारः। माता पितृवत् / शसि मातृः / राः पुंवत् / द्यौवित् / नग्लौवत् / इति श्रीसिद्धहैमबृहत्मक्रियायां स्वरान्तस्त्रीलिङ्गप्रकरणम् समाप्तम् // // अथ स्वरान्तनपुंसकलिङ्गप्रकरणम् // - 269 अतः स्यमोऽम् // 1 / 4 / 57 // अकारान्तस्य नपुंसकस्य संबंधिनोः स्यमोरमित्ययमादेशः स्यात् / समानादमोऽतः / कुण्डम् / नपुंसकस्येत्येव / वृक्षः। अत इति किम् / दधि / तत्संबंधिविज्ञानादिह न भवति / प्रियकुण्डः / अमोऽकारोच्चारणं जरसादेशार्थम् , तेनातिजरसं कुलमित्यादि सिद्धम् / 270 औरी // 14 // 56 // नपुंसकस्य संबंधी औकार ईकारः स्यात् / कुण्डे / तत्संबंधिविज्ञानादिह न भवति / प्रियकुण्डौ / इह तु स्यादेव / परमकुण्डे / 271 नपुंसकस्य शिः // 1 / 4 / 55 // नपुंसकस्य संबंधिनोर्जसशसोः स्थाने शिः स्यात् / स च घुट्संज्ञकः शेषघुट्संज्ञकश्च / शकारो विशेषार्थः / 272 स्वराच्छौ // 1 // 4 // 65 // जस्शसादेशे शौ परे स्वरान्तानपुंसकात् परो नोऽन्तः स्यात् / 273 नि दीर्घः // 1 / 4 / 86 // शेषे घुटि परे यो नकारस्तस्मिन् परे पूर्वस्य स्वरस्य दीर्घः स्यात् / कुण्डानि / द्वितीयायामप्येवम् / अदेतः स्यमोरित्यमो लुकि हे कुण्ड / शेषं देववत् / एवं कुलादयः / सर्वादिष्वन्यादीनां विशेषः / - 274 पञ्चतोऽन्यादेरनेकतरस्य दः // 1 / 4 / 58 // नपुंसकानामन्यादीनां सर्वाद्यन्तर्वर्तिनां पञ्चपरिमाणानां संबंधिनोः स्यमोः स्थाने द इत्ययमादेशः स्यात् ,