SearchBrowseAboutContactDonate
Page Preview
Page 689
Loading...
Download File
Download File
Page Text
________________ 676 सिद्धहैमबृहत्पक्रिया. [ कृदन्त मदिदृषिसाधिवर्धिशोभिरोचिभ्यो ण्यन्तेभ्यः संज्ञायाम् / नन्दनः। वाशनः / मदनः। दूषणः / साधनः / वर्धनः / शोभनः / रोचनः / सहिरमिदमिरुचिकृतितपितृदिदहियुपूलूभ्यः संज्ञायामेवाप्यन्तेभ्यः / सहते सहनः / एवं रमणः / दमनः / विरोचनः। विकर्तनः / तपनः / प्रतर्दनः। दहनः / यवनः / पवनः / लवणः। निपातनाण्णत्वम् / समः क्रन्दिकृषिहृषिभ्यः संज्ञायामेव / संक्रन्दनः। संकर्षणः। संहर्षणः / कर्मणो दमिअदिनाशिमदिभ्यः। सर्वदमनः / जनार्दनः। वित्तविनाशनः। मधुसूदनः / असंज्ञायामपि / रिपुदमनः / कुलदमनः / परार्दनः / रोगनाशनः / अरिसूदनः। नर्दिभीषिभूपिपिजल्पिभ्यः। नर्दयति नर्दनः। विभीषयते विभीषणः। भूषयति भूषणः / दृप्यति दर्पणः / जल्पति जल्पनः / बहुवचनमाकृतिगणार्थम् / ___ 747 ग्रहादिभ्यो णिन् // 1 / 1 / 53 // ग्रहादिभ्यो नामगणदृष्टेभ्यो णिन् प्रत्ययः स्यात् / ग्राही / स्थायी / उपस्थायी। मन्त्री / संमर्दी / उपावाभ्यां रुधः। उपरोधी / अवरोधी / अपाद्राधः। अपराधी / उदः सहिदहि (सि ) भासिभ्यः उत्साही। उद्दाही (सी)। उद्भासी / नेः श्रुशीविशवसवपरक्षिभ्यः। निशृणोति निश्रावी / निशायी / निवेशी / निवासी / निवापी / निरक्षी / नबो व्याहृसंव्याहृ. संव्यवहयाचिव्रजवदवसिभ्यः / न व्याहरति अव्याहारी / असंव्याहारी / असंव्यवहारी / अयाची / अवाजी / अवादी / अवासी / नपूर्वात् स्वरान्तादचित्तवकर्तृकात् / अकारी धर्मस्य बालातपः / अहारी शीतस्य शिशिरः / चित्तवत्कर्तृकान / अकर्ता कटस्य चैत्रः। केचिदनपूर्वादिच्छन्तिः / कारी / हारी / व्यभिभ्यां भुवोऽतीते / विभवति स्म विभावी। अभिभावी / विपरिभ्यां भुवो इस्वश्च वा / विभवति विभावी / विभवी / परिभावी / परिभवी / वेः शीक्षिगोर्देशे इस्वश्च / गुणैश्चित्ते विशेते विसिनोति वा विशयी विषयी प्रदेशः। निपातनात पखम् / ग्रहादिराकृतिगणः। ____748 नाम्युपान्त्यप्रीकृगृज्ञः कः // 5 // 1 // 54 // नाम्युपान्त्येभ्यो धातुभ्यः पीकृगृज्ञा इत्येतेभ्यश्च कः प्रत्यय: स्यात् / ककारः कित्कार्यार्थः। विक्षिपः / विलिखः / बुधः / युधः / कृशः / वितृदः / पीणातीति प्रियः / किरतीति किरः। उत्किरः। गिलतीति गिलः। निगिलः। जानातीति ज्ञः / काष्ठभेद इति परखादण / 749 वौ विष्किरोवा॥४।४।९७॥वौ पक्षिण्यभिधेये विष्किर इति वा स्सट् . .
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy