________________ प्रकरणम् ] सिद्धहैमबृहत्प्रक्रिया. 675 रस्य षः स्यात् / परिषयः / निषयः / विषयः / परिषितः / निषितः / विषितः / सय इति सिनोतेरलन्तस्याजन्तस्य घान्तस्य वा / सित इति क्तान्तस्य रूपम् / स्यतेर्वा नियमार्थ परिनिविपरस्यैव क्तान्तस्य स्यतेयथा स्यात् इति / तेनोपसर्गान्तरपूर्वस्य उपसर्गात् सुगित्यादिनाऽपि न भवति / तेन प्रतिसितः नि:सितः इत्यादि सिद्धम् / योगविभागात् द्वित्वेऽपि अट्यपीति निवृत्तम् / तेन माविषसयदित्यत्र द्वित्वे सति पूर्वेण व्यवधानादुत्तरस्य न / पूर्वस्य खव्यवहितत्वात् भवत्येव / व्यसयीयत् / पर्यसितायत / कथं मापरिषिषयत् ? द्वित्वे सति उपसर्गात् परस्य पूर्वस्यानेन पखम् उत्तरस्य तु ' नाम्यन्तस्थे'त्यादिनेति न दोषः।। 743 वेः स्कन्दोऽक्तयोः // 2 / 3 / 51 // विपूर्वस्यः स्कन्देः संवन्धिनः सकारस्य पो वा स्यात् अक्तयोः-न चेत् क्तक्तवतू प्रत्ययौ स्याताम् / द्विवचनादर्थवद्ग्रहणानपेक्षमुभयपरिग्रह; / विष्कन्ता / विस्कन्ता। विष्कन्तुम् / विस्कन्तुम् / अक्तयोरिति किम् / विस्कन्नः। विस्कनवान् / 744 परेः // 2 / 3 / 52 // परिपूर्वस्य स्कन्देः सकारस्य पो वा स्यात् / परिष्कन्ता। परिस्कन्ता। परिष्कन्तुम् / परिस्कन्तुम् / योगविभागादक्तयोरिति नानुवर्तते / तेन क्तयोरपि विकल्पः / परिष्कण्णः / परिस्कन्नः। परिष्कण्णवान् / परिस्कन्नवान् / केचित्तु परिपूर्वस्य स्कन्देरजन्तस्य घअन्तस्य वा प्राच्यभरतविषये नित्यं पत्वमन्यत्र विकल्पमिच्छन्ति / अन्ये तु प्राच्यभरतविषये प्रयोगे पखाभावमन्यत्र तु विकल्पमिच्छन्ति तदुभयं नारम्भणीयम् , अनेनैव सिद्धवात् / __745 निर्दु सुवेः समसूतेः // 2 // 3 // 56 // निर्दुःसुविभ्यः परस्य सममूतिसंबन्धिनः सकारस्थ पः स्यात् / निःषमः / दुःषमः। सुषमः / विपमः / निःषतिः। दुःपूतिः। सुषुतिः / वितिः। समसुतीति नाम्नोर्ग्रहणाद धातोर्वैरूप्ये च न / निःसमति / दुःसमति / सुसमति / विसमति / निःमूतम् / दुःसूतम् / सुसूतम् / विस्तम् / अन्ये तु सममृत्योर्धात्वोरेवेच्छन्ति / तन्मते निषमति, दुःषमति, निःपूतं, . दुःख़्तमित्यादावेव / ____746 नन्द्यादिभ्योऽनः // 5 // 1 / 52 // नन्यादिभ्यो धातुभ्यो नामगणे दृष्टेभ्योऽनः प्रत्ययः स्यात्। नन्यादयो नन्दनरमणेत्यादिनामगणशब्देभ्योऽपोद्धृत्य वेदितव्याः। स च सपत्ययपाठो विशिष्टविषयार्थी रूपनिग्रहार्थश्च / नन्दिवाशि