SearchBrowseAboutContactDonate
Page Preview
Page 687
Loading...
Download File
Download File
Page Text
________________ 674 सिद्धहैमबृहत्मक्रिया. [ कृदन्त ___735 अच् // 5 // 1 // 49 // धातोरच् प्रत्ययः स्यात् / कृत्त्वात्कर्तरि / करः। हरः। पचः / पठः / उद्वहः / चकारः 'अचि' इत्यत्र विशेषणार्थः।। 736 अचि // 3 / 4 / 15 // अचि प्रत्यये परे यङो लुप् स्यात् / लोलुवः। पोपुवः। सनीस्रसः। दनीध्वंसः / चेच्यः। नेन्यः / 'बहुलं लुप्' इति विकल्पे प्राप्ते नित्यार्थ वचनम् / __737 नोतः // 3 / 4 / 16 // उकारान्ताद् विहितस्य योऽचि परे लुब् न स्यात् / योयूयः / रोख्यः / 738 लिहादिभ्यः / / 5 / 1 / 50 // लिहादिभ्यो धातुभ्योऽच् प्रत्ययः स्यात् / पृथग्योगो बाधकबाधनार्थः / लेहः / शेषः। सेवः / देवः / मेधः / मेषः। मेघः। देहः / प्ररोहः। न्यग्रोधः / कोपः। गोपः / सर्पः / नर्तः / दर्शः / एषु नाम्युपान्स्यलक्षणं कं दृशेस्तु वा शं बाधते / अनिमिष इति बहुलाधिकारात् कोऽपि भवति / श्वपचः / पारापतः / यद्वदः / अरीन् व्रणयतीत्यरित्रणा शक्तिः / जारभरा / कन्यावरः / रघूद्वहः / रसावहः / एष्वणं बाधते / बहुवचनम् आकृतिगणार्थम् / नदी / भषी / प्लवी / गरी / चरी / तरी / दरी / स्तरी / मृदी। देवी। सेवी / चोरी / गोही / एतेऽजन्ता गौरादौ द्रष्टव्याः। 739 चराचरचलाचलपतापतवदावदघनाघनपाटूपटं वा // // 4 / 1 / 13 / / एते शब्दा अचि कृतद्विर्वचना वा निपात्यन्ते / चरिचलिपतिवदिहन्तीनामजन्तानां द्वित्वं हन्तेर्हस्य घत्वं पूर्वस्य च दीर्घः। चरतीति चराचरः / चलाचलः। पतापतः / वदावदः। घनाघनः। पाटयतेरजन्तस्य द्वित्वं इस्वत्वं पूर्वस्य च ऊदन्तो निपात्यते / पाटयतीति पाटूपटः / पक्षे चरः। चलः / पतः / वदः / हनः। पाटः। केचित्तु पटूपट इति निपातयन्ति / 740 चिक्लिदचनसम् // 4 / 1 / 14 // चिक्लिदचक्नसशब्दौ निपात्येते / चिक्लिदः / चक्रसः / चक्रुः ययुः बभ्रुः इत्यौणादिकाः / 741 ब्रुवः // 5 // 1 // 51 // ब्रुवो धातोरचि ब्रुव इति निपात्यते / ब्राह्मणमात्मानं ब्रूते ब्राह्मणब्रुवः / अण्वचादेशगुणबाधनाथै निपातनम् / 742 सयसितस्य // 2 // 3 // 47 // परिनिविभ्यः परयोः सयसितयोः सका
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy