________________ मकरणम् ] सिद्धहैमबृहत्मक्रिया. 673 द्गृह्यः / मद्गृह्यः / गुणगृह्या वचने विपश्चितः / तत्पक्षाश्रिता इत्यर्थः / एष्विति किम् / ग्राह्यं वचः। 729 भृगोऽसंज्ञायाम् // 51 // 45 // भृगो धातोरसंज्ञायां क्यप् स्यात् / भ्रियते भृत्यः। पोष्य इत्यर्थः। असंज्ञायामिति किम् / भार्यो नाम क्षत्रियः / भार्या पत्नी। ननु च संज्ञायामपि स्त्रियां भृगो नाम्नीति क्यवस्ति-यथा कुमारभृत्या / न / तस्य भाव एव विधानात् / 730 समो का // 5 // 1 // 46 // संपूर्वाद् भृगः क्यब् वा स्यात् / संभृत्यः / संभार्यः। // इति कृत्यप्रत्ययाः॥ 731 णकतृचौ // 1 // 48 // धातोः परौ णकचौ प्रत्ययौ स्याताम् / कृत्त्वात् कर्तरि / पाचकः / पक्ता / पाठकः / पठिता। णकारो वृद्धयर्थः। चकारस्वन्त्यस्वरादेरित्यत्र सामान्यग्रहणाविघातार्थः / 732 त्रने वा // 4 / 4 / 3 // तृ अन इत्येतयोः प्रत्यययोर्विषयभूतयोरजेवीं इत्यादेशो वा स्यात् / प्रवेता। प्राजिता / प्रवयणः पाजनो दण्डः। अत्रानो वक्ष्यते। अन्ये त्वने प्रत्यये यकाररहिते व्यञ्जनादौ चाविशेषेण विकल्पमिच्छन्ति / प्रवेता। प्राजिता। प्रवेष्यति / प्राजिष्यति / प्रविवीपति / पाजिजिषति। प्रवेतव्यम् / पाजितव्यम् / प्रवेतुम् / प्राजितुम् / 733 तुः // 4455 // अनात्मनेपदविषयात् क्रमः परस्य तुस्तृचस्तृनश्च स्ताद्यशित आदिरिट स्यात / अनात्मन इति प्रकृतिविशेषणमत्रान्यथा व्यवच्छेद्याभावात् / क्रमिता / निष्क्रमिता। आत्मनेपदविषयश्च क्रमिः कर्मव्यतिहारवृत्त्यादिषु प्रोपव्यापूर्वश्च आरम्भादिषु भवति / अनात्मन इत्येव / व्यतिक्रन्ता / प्रक्रन्ता / उपक्रन्ता। विक्रन्ता / आक्रन्ता / 734 अर्हे तृच् // 5 // 4 // 37 // अर्हे कर्तरि वाच्ये धातोस्तृच् प्रत्ययः स्यात् / भवान् कन्याया वोढा / भवान् खलु च्छेदमूत्रस्य वोढा / सप्तम्या बाधा मा भूदित्यह तृविधानम् /