SearchBrowseAboutContactDonate
Page Preview
Page 685
Loading...
Download File
Download File
Page Text
________________ 672 सिद्धहैमबृहत्मक्रिया. [ कृदन्त 724 दृवृरस्तुजुषेतिशासः // 51 // 40 // एभ्यः क्यप् स्यात् / दृ-आ. दृत्यः / वृग-प्रात्यः / तृङस्तु वार्या ऋविजः / स्तु-स्तुत्यः / अवश्यस्तुत्यः / जुष्यः / एतीति इणिकोहणम् / इत्यः / अधीत्यः / अयतेरिङश्च न / उपेयम् / अध्येयम् / इकोऽप्यध्येयमित्येके। ईयतेरप्युपेयमिति भवति / शास-शिष्यः। आशासेस्तु 'आशास्यमन्यत् पुनरुक्तभूतम् ' इति / कथ मनिवार्यो गजैरन्यैः स्वभाव इव देहिनाम् ' इति ? संभक्तेरन्यत्रापि वृङ् / 725 ऋदुपान्त्यादकृपिदृचः // 5 // 1 // 41 // ऋकारोपान्त्याद् धातोः कृपितिऋचिवर्जितात् क्यप् स्यात् / वृत्यम् / वृध्यम् / गृध्यम् / शृध्यम् / अकृषिवृदृच इति किम् / कल्प्यम् / चर्यम् / अय॑म् / 726 कृषिमृजिशसिगुहिदुहिजपो वा // 5 // 1 // 42 // एभ्यः क्यप् वा स्यात् / कृत्यम् / कार्यम् / वृष्यम् / वर्ण्यम् / मृज्यम् / मार्यम् / शस्यम् / शंस्यम् / गुह्यम् / गोह्यम् / दुह्यम् / दोह्यम् / जप्यम् / जाप्यम् / जपेरपि क्यवभावपक्षे। ध्यण् विकल्पसामर्थ्यात् / 727 जिविपून्यो हलिमुञ्जकल्के // 5 / 143 // जयतेविपूर्वाभ्यां च पूनीभ्यां यथासंख्यं हलिमुञ्जकल्केषु कर्मसु वाच्येषु क्यप् स्यात् / महद्धलं हलिः / मुञ्जस्तृणविशेषः। कल्कस्त्रिफलादीनाम् / जीयते निपुणेनेति जित्या जित्यो वा हलिः / पूङ् पूग वा / विपवितव्यो विपूयो मुञ्जः / पूगो नेच्छन्त्येके / विनेतव्यस्तैलादिमध्ये इति विनीयः कल्कः / हलिमुञ्जकल्क इति किम् / जेयम् / विपव्यम् / विनेयम् / ___ 728 पदास्वैरिबाह्यापक्ष्ये ग्रहः // 5 / 1 // 44 // विभक्त्यन्तं पदम् / अस्वैरी परतन्त्रः। बाह्या बहिर्भवा / पक्ष्यो वर्यः / एष्वर्थेषु ग्रहः क्यप स्यात् / घ्यणोऽपवादः। प्रगृह्यते विशेषेण ज्ञायते प्रगृह्यं पदम् / यत्स्वरेण न संधीयते 'अग्नी इति' / अवगृह्यते नानावयवसात् क्रियते अवगृह्यं पदम् / अस्वैरिणिगृह्याः कामिनः। रागादिपरतन्त्रा इत्यर्थः / बाह्यायां-ग्रामगृह्या श्रेणिः। नगरगृह्या सेना / बाह्येत्यर्थः / स्त्रीलिङ्गनिर्देशो लिङ्गान्तरेऽनभिधानख्यापनार्थः / पक्ष्ये-त्व 1 शकितकीति यप्रत्यये तु विशेषाभावः /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy