________________ प्रकरणम् ] सिद्धहैमबृहत्पक्रिया. 671 719 नानो वदः क्यप् च // 5 // 1 // 35 // अनुपसर्गादिति वर्तते / अनुपसर्गानाम्नः पराद् वदे; क्यप् यश्च प्रत्ययौ स्याताम् / ब्रह्मोद्यम् / ब्रह्मवद्यम् / सत्यवद्यम् / सत्योद्यम् / नाम्न इति किम् / वाद्यम्। अनुपसर्गादित्येव / प्रवाद्यम् / अनुवाद्यम् / ककारः कित्कार्यार्थः / पकार उत्तरत्र तागमार्थः। ___720 हत्याभूयं भावे // 5 // 1 // 36 // अनुपसर्गान्नाम्नः परौ हत्या भूय इत्येतौ भावे क्यवन्तौ निपात्येते / हन्तेः स्त्रीभावे क्या तकारश्चान्तादेशः। ब्रह्मणो वधः ब्रह्महत्या। भ्रूणहत्या। दरिद्रहत्या / श्वहत्या। भवतेनपुंसके भावे क्यप् / ब्रह्मभूयं गतः। देवभूयं गतः। ब्रह्मत्वं देवत्वं गत इत्यर्थः। भाव इति किम् / श्वघात्या वृपली / नाम्न इत्येव / हतिः / घातः। भव्यम् / हन्तेर्भावे ध्यण न भवत्यनभिधानात् / तथा च बहुलाधिकारः। अनुपसर्गादित्येव / उपहतिः। प्रभव्यम् / 721 अग्निचित्या // 5 // 1 // 37 // अग्नेः पराचिनोतेः स्त्रीभावे क्या निपात्यते। अग्नेश्चयनमग्निचित्या / 722 खेयमृषोये // 1 // 38 // अनुपसर्गादिति नाम्न इति च निवृत्तम् / खेय मृषोद्य इत्येतो क्यवन्तौ निपात्येते / खनेय॑णोऽपवादः क्यप अन्त्यस्वरादेरेकारश्च / खन्यत इति खेयम् / निखेयम् / उत्खेयम् / मृषापूर्वाद् वदतेः पक्षे ये पाप्ते नित्यं क्प् / मृपोद्यते मृषोद्यम् / नात्र भाव एवेति योगविभागः। 723 कुप्यभिद्योद्ध्यसिध्यतिष्यपुष्ययुग्याज्यसूर्य नाम्नि / // 5 // 1 // 39 // एते क्यवन्ता संज्ञायां निपात्यन्ते / गुपेः क्यप आदिकत्वं च धनेऽर्थे / गोपाय्यते तदिति कुप्यं धनम् / गोपाय्यमन्यत् / भिदेरुज्झेश्च नदेऽभिधेये क्यप् उज्झेधत्वं च / भिनत्ति कूलानि इति भिद्यः / उज्झत्युदकम् उद्ध्यः / अन्यत्र भेत्ता / उज्झिता / सिधिखिपिपुषिभ्यो नक्षत्रेऽभिधेये क्यप् विषेर्वलोपश्च / सिध्यन्ति त्वेषन्ति पुष्यन्ति अस्मिन् कार्याणि इति सिध्यः, तिष्यः, पुष्यः। अन्यत्र सेधनः, त्वेपणः, पोषणः / युजेः क्यप् गत्वं च वाहनेऽभिधेये। युञ्जन्ति तदिति युग्यं वाहनं गजाश्वादि। योग्यमन्यत् / आपूर्वादञ्जर्घतेऽर्थे क्यप् / आञ्जत्यनेनेति आज्यं घृतम् / आञ्जनमन्यत् / सर्तेः क्यपू ऋकारस्योर, सुबतेर्वा क्यप् रान्तश्च देवतायाम् / सरति सुवति वा कर्मसु लोकानिति सूर्यो देवता / बहुलाधिकारान्निपातनसामर्थ्याद्वानुक्तोऽपि निपातनेषु कारकविशेपो गम्यते /