SearchBrowseAboutContactDonate
Page Preview
Page 683
Loading...
Download File
Download File
Page Text
________________ 670 सिद्धहैमबृहत्पक्रिया. [ कृदन्त भवता। उपलम्भ्यं शीलम्। स्तुताविति किम् / उपलभ्या वार्ता। उपलभ्यमस्माद् वृषलात् किश्चित् / गम्यम् / यजेः 'त्यज्यमवचः' इति प्रतिषेधात् भजेश्च बाहुलकाद् घ्यणपि याज्यम् / भाग्यम् / यजिभजिभ्यां नेच्छन्त्येके। कथमसिना वध्योऽसिवध्यः, मुसलवध्यः ? ' न जनवधः' इति वृद्धिप्रतिषेधे घ्यणा भविष्यति / 714 यममदगदोऽनुपसर्गात् // 5 // 1 // 30 // उपसर्गरहितेभ्य एभ्यो यः स्यात् / यम्यम् / मद्यम् / गद्यम् / अनुपसर्गादिति किम् / आयाम्यम् / प्रमाद्यम् / निगाधम् / पवर्गान्तत्वात् सिद्धे यमो नियमार्थं वचनम्-अनुपसर्गादेव यथा स्यात् / बहुलवचनान्माद्यत्यनेनेति मद्यम् करणेऽपि नियम्यमिति च सोपसर्गादिति / 715 चरेराङस्त्वगुरौ // 5 // 1 // 31 // अनुपसर्गाच्चरेरापूर्वोत्त्वगुरावर्थे यः प्रत्ययः स्यात् / चर्य भवता / चर्यो देशः। आचर्य भवता। आचर्यो देशः। आङस्त्विति किम् / अभिचार्यम् / अगुराविति किम् / आचार्यो गुरुः / ____716 वर्योपसर्यावद्यपण्यमुपेयर्तुमतीगीविक्रेये // 5 // 1 // 32 // वर्यादयः शब्दा उपेयादिष्वर्थेषु यथासंख्यं यान्ता निपात्यते / वृणातेर्ये वर्या उपेया चेद् भवति / शतेन वर्या, सहस्रेण वर्या कन्या संभक्तव्या मैत्रीमापादनीयेति यावत् / वृत्यान्या / वृणोतेः क्यप् / स्त्रीलिङ्गनिर्देशादिह न / वार्या ऋत्विजः। अन्यस्तु ' सुग्रीवो नाम वोऽसौ भवता चारुविक्रमः' इति प्रयोगदर्शनात् पुंलिङ्गेऽपीच्छति। सामान्यनिर्देशात् तदपि संगृहीतम् / शतेन वर्यः / सहस्रेण वर्यः / उपपूर्वात् सर्तेर्ये उपसर्या ऋतुमती चेत् / उपसर्या गौः / गर्भग्रहणे प्राप्तकालेत्यर्थः / अन्यत्र उपसर्या शरदि मथुरा / नञ्पूर्वाद् वदेर्ये अवयं गद्य चेत् / अवयं पापम् / अवद्या हिंसा / गर्खेत्यर्थः / अनुद्यमन्यत् / कथमवाधा ? वदेनिरुपपदात् ध्यण / पश्चात् नङ्समासः। पणेर्ये पण्यं विक्रेयं चेत् / पण्यः कम्बलः / पण्या गौः। विक्रेयेत्यर्थः। अन्यत्र पाण्यः साधुः। 717 स्वामिवैश्येयः // 1 / 1 / 33 // अर्तेः स्वामिनि वैश्ये चाभिधेये यो निपात्यते / अर्यः स्वामी / अर्को वैश्यः / स्वामिवैश्य इति किम् / आर्यः / 718 वह्यं करणे // 5 // 1 // 34 // वहेः करणे यो निपात्यते / वहन्ति तेनेति वह्यं शकटम् / वाह्यमन्यत् /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy