SearchBrowseAboutContactDonate
Page Preview
Page 682
Loading...
Download File
Download File
Page Text
________________ पकरणम् ] सिद्धहैमबृहत्मक्रिया. करणे' इति, निष्पानमिति स्वरादिति निष्पायनमिति णेति प्राप्ते प्रतिषेधः / पादिति किम् / निर्णयः / पद इति किम् / पुष्पाति / सर्पिष्केण / 709 पदेऽन्तरेऽनाङ्यतद्धिते // 2 / 3 / 93 // आङन्तं तद्धितान्तं च वर्जयिखाऽन्यस्मिन् पदे निमित्तनिमित्तिनोरन्तरे व्यवधायके नकारस्य णो न स्यात् / प्रावनद्धम् / पर्यवनीतम् / माषकुम्भवापेन / व्रीहिकुम्भवापेन / चतुरङ्गयोगेन / भर्तृवाहुयुग्मेन / रोषभीममुखेन / अत्र यदा माषकुम्भस्य वाप इति माषाः कुम्भो वापोऽस्येति वा समासस्तदा 'वोत्तरपदान्ते'ति विकल्पे प्राप्ते प्रतिषेधः / यदा माषस्य कुम्भवाप इति तदा 'कवर्गकस्वरवती'ति नित्ये प्राप्ते / एवं शेषेष्वपि यथासंभवं वाच्यम् / अन्ये तु माषाणां कुम्भवाप इति व्यवधायकस्योत्तरपदावयवत्वे प्रतिषेधं नेच्छन्ति / तन्मते माषकुम्भवापेणेत्यादौ नित्यमेव णवम् / अपरे तु माषकुम्भस्य वाप इति व्यवधायकस्य पूर्वपदावयवत्वे प्रतिषेधं नेच्छन्ति / तन्मते माषकुम्भवापेण माषकुम्भवापेनेत्यादौ विकल्प एव / अनाडीति किम् / प्राणद्धम् / पर्याणद्धम् / अतद्धित इति किम् / आगोमयेण / 710 य एचातः // 5 // 1 // 28 // ऋवर्णव्वञ्जनान्तात् ध्यणो विहितत्वात् परिशिष्टात् स्वरान्ताद् धातोर्यः प्रत्ययः स्यात् अन्त्याकारस्य चैकारः / दित्स्यम् / धित्स्यम् / चेयम् / जेयम् / नेयम् / शेयम् / नव्यम् / लव्यम् / भव्यम् / एचातः देयम् / धेयम् / ____711 शकितकिचातयातशसिसहियजिभजिपवर्गात् // 5 // 1 // 29 // शक्यादिभ्यः पवर्गान्तेभ्यश्च धातुभ्यो यः प्रत्ययः स्यात् / घ्यणोऽपवादः। शक्यम् / तक्यम् / चत्यम् ॥यत्यम् / शस्यम् / सह्यम् / यज्यम् / भज्यम् / पवर्गान्त-तप्यम् / लभ्यम् / 4-104 712 आङो यि // 4 / 4 / 10 / आङः परस्य लभते: स्वरात् परो यि यकारादौ प्रत्यये नोऽन्तः स्यात् / आलम्भ्या गौः। आलम्भ्या वडवा। आङ इति किम् / लभ्यः / यीति किम् / आलब्धा / 4-4-105 ___713 उपास्तुतौ // 4 / 4 / 106 // उपात् परस्य लभतेः स्वरात् परो यकारादौ प्रत्यये परे स्तुतौ प्रशंसायां गम्यमानायां नोऽन्तः स्यात् / उपलम्भ्या विद्या
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy