________________ 668 सिद्धहैमबृहत्मक्रिया. [ कृदन्त मेहणम् / पोहणम् / नाम्युपान्त्यादिति किम् / प्रवपणम् / स्वरादित्येव / प्रभुनः / अदुरित्येव / दुर्मोहनः / अलचटतवर्गशसान्तर इत्येव / प्रभेदनम् / स्वरादिन्यनेन नित्यं प्राप्ते विभाषेयम् / 704 णेवा // 2 / 3 / 88 // अदुरुपसर्गान्तःशब्दस्थाद्रपुवर्णात् परस्य ण्यन्ताद्धातोविहितस्य स्वरादुत्तरस्य द्विषयस्य नकारस्य णो वा स्यात् / प्रयापणीयम् / प्रयापनीयम् / विहितविशेषणं किम् / प्रयाप्यमाणः, प्रयाप्यमान इति क्येन व्यवधानेऽपि यथा स्यात् / अलचटतवर्गशसान्तर इत्येव / प्रदापनम् / प्रतियापनम् / अनाम्यादिभ्यो नागमे सति 'नाम्यादेरेव ने' इति नियमेनाप्राप्ते शेषेभ्यस्तु स्वरादित्यनेन नित्यं प्राप्ते उभयत्र विभाषेयम् / 705 निर्विणः॥२।३।८९॥ निरपूर्वाद् विदेः सत्तालाभविचारार्थात् परस्य क्तनकारस्य णत्वं निपात्यते / निर्विण्णः पात्राजीत् / कश्चित्तु वेत्तेरपीच्छति निर्विण्णवानिति च / 706 न ख्यापूरभूभाकमगमप्यायवेपौ णेश्च // 2 // 390 // अदुरुपसर्गान्तःशब्दस्थाद् रघुवर्णात् परे ये ख्यादयो ण्यन्ताश्च धातवस्तेभ्यः परस्य कृद्विषयस्य नकारस्य णो न स्यात् / प्रख्यानीयम् / प्रख्यापनीयम् / अपवनीयम् / प्रपावनीयम् / प्रभवनीयम् / प्रभावनीयम् / प्रभानीयम् / प्रभापनीयम् / प्रकमनी भ्यश्च विकल्पेन प्राप्त प्रतिषेधः। प्रगो गकारः पवते निवृत्त्यर्थः। तेन प्रपवणम् , प्रपूयमाणम् इत्यादि / ख्यातेर्णवमिति कश्चित् / प्रख्याणम् / प्रख्यायमाणम् / 707 देशेऽन्तरोऽयनहनः // 2 / 3 / 91 // अन्तःशब्दात् परस्यायनशब्दस्य हन्तेश्च संबन्धिनो नकारस्य देशेऽभिधेये णो न स्यात् / अन्तरय्यतेऽस्मिन्निति अन्तरयनो देशः / एवमन्तहननीयः / देश इति किम् / अन्तरयणं वर्तते / अन्तईण्यते / अन्तर्घणो देशे इति तु निपातनात् / अन्तर इति किम् / प्रायणो देशः। अयनहन इति किम् / अन्तर्णमनो देशः। 708 षात्पदे // 2 / 3 / 92 // पदे परतो यः षकारस्तस्मानिमित्तात् परस्य नकारस्य णो न स्यात् / सर्पिष्पानम् / यजुष्पानम् / दुष्पानम् / अत्र 'पानस्य भाव