________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 667 किम् / अजुहवुः। ग्रामणि कुलं दृत्रह कुलमित्यत्र तु 'असिद्धं बहिरङ्गमन्तरले' इति न भवति / सुशूः, उपशूयेत्यत्रान्तरङ्गखाद् विशेषविहितत्वाच रद्दीर्घत्वं च / 698 याज्या दानचि // 5 // 1 // 26 // यजेः करणे घ्यण् निपात्यते दानNभिधेयायाम् / इज्यतेऽनयेति याज्या। 'त्यज्यज्प्रवचः' इति गवाभावः / 699 तव्यानीयौ // 5 / 1 / 27 // धातोः परौ तव्य अनीय इत्येतौ प्रत्ययौ स्याताम् / शयितव्यम् / शयनीयम् / वस्तव्यम् / वसनीयम् / कर्तव्यं करणीयं भवता / कर्तव्यः करणीयः कटः। 700 निंसनिक्षनिन्दः कृति वा // 2 // 3 // 84 // अदुरुपसर्गान्तःशब्दस्थाद्रवर्णात् परस्य निसादीनां धातूनां नकारस्य कृत्पत्यये परो णो वा स्यात् / प्रणिसितव्यम् / प्रनिसितव्यम् / प्रणिक्षितव्यम् / प्रनिक्षितव्यम् / प्रणिन्दितव्यम् / पनिन्दितव्यम् / कृतीति किम् / प्रणिस्ते / पणिक्षति / प्रणिन्दति / ___701 स्वरात् // 2 // 3 // 85 // अदुरुपसर्गान्तःशब्दस्थाद्रपृवर्णात् परस्य कृद्विषयस्य नकारस्य स्वरादुत्तरस्य णः स्यात् / प्रयाणीयम् / यथासंभवं क्त-क्तवतुअन-आन-इन्-अनि-अनीय इत्येते प्रत्ययाः प्रयोजयन्ति / स्वरादिति किम् / प्रभुनः / प्रभुनवान् / अदुरित्येव / दुर्यानः पन्थाः। कृतीत्येव / प्रवापेन / अलचटतवर्गशसान्तर इत्येव / प्रक्लप्यमानम् / 702 नाम्यादेरेव ने // 2 // 386 // अदुरुपसर्गान्तःशब्दस्थाद्रपुवर्णात् परस्य नागमे सति नाम्यादेरेव धातोः परस्य स्वरादुत्तरस्य कृद्विषयस्य नकारस्य णः स्यात् / प्रेङ्क्षणीयम् / नाम्यादेरिति किम् / प्रमङ्गनीयम् / एवकार इष्टावधारणार्थः। न एव सति नाम्यादेरिति नियमे इह न स्यात् / प्रेहणम् / पूर्वेण सिद्धे नियमार्थ वचनम् / नग्रहणं नागमादेशोपलक्षणार्थम् / नकारस्य व्यवधाने हि प्राप्तिरेव नास्ति / मेन्वनम् / व्यञ्जनान्तादेवायं नियमः / ण्यन्तात्तु 'णे' इति परवाद्विकल्प एव / प्रमङ्गणा / प्रमङ्गना / 703 व्यञ्जनादर्नाम्युपान्त्यावा // 2 // 387 // अदुरुपसर्गान्तःशब्दस्थात् रघुवर्णात् परो यो व्यञ्जनादि म्युपान्त्यो धातुस्ततः परस्य कृद्विषयस्य स्वरादुत्तरनकारस्य णो वा स्यात् / प्रकोपणीयम् / प्रकोपनीयम् / व्यञ्जनादेरिति किम् /