SearchBrowseAboutContactDonate
Page Preview
Page 679
Loading...
Download File
Download File
Page Text
________________ सिद्धहैमबृहत्प्रक्रिया. [कृदन्त भवतः / संचीयते सोमोऽस्मिन् संचीयते वासाविति संचाय्यः क्रतुः / संयोऽन्यः। कुण्डैः पीयते सोमोऽस्मिन् कुण्डैः पीयते इति वा कुण्डपाय्यः क्रतुः / ससोमको हि यागः क्रतुः / कुण्डपानोऽन्यः / राजा सूयतेऽस्मिन् राज्ञा वा सोतव्य इति राजसूयः क्रतुः। 694 प्रणाय्यो निष्कामासंमते // 1 / 1 / 23 // प्रपूर्वानयतेय॑ण् आयादेशश्च निपात्यते निष्कामेऽसंमते वाभिधेये // प्रणाय्योऽन्तेवासी / विषयेप्वनभिलाष इत्यर्थः / प्रणाय्यश्चौरः / सर्वलोकासंमत इत्यर्थः। प्रणेयोऽन्यः / 695 धाय्यापाय्यसान्नाय्यनिकाय्यमृङ्मानहविर्निवासे // 5 // 1 // 24 // धाय्यादयः शब्दा ऋगादिष्वर्थेषु यथासंख्यं ध्यणन्ता निपात्यन्ते / निपातनादेव च सर्वत्रायादेशः / दधातेक़चि, धीयते समिदग्नावनयेति धाय्या ऋक् / रूढिशब्दत्वात् काश्चिदेव ऋच उच्यन्ते / अन्यत्र धेया। मीयते येन तन्मानम् / तत्र माङ आदिपत्वं च / मीयते तेनेति पाय्यं मानम् / मेयमन्यत् / संपूर्वान्नयतेई विषि समो दीर्घत्वं च / सानाय्यं हविः। अयमपि रूढिशब्दत्वाद्धविविशेषेऽवतिष्ठते / संनेयमन्यत् / निपूर्वाचिनोतेनिवासे आदिकत्वं च . / निकाय्यो निवासः / निचेयमन्यत् / 696 परिचाय्योपचाय्यानाय्यसमूह्यचित्यमग्नौ // 5 // 1 // 25 // एतेऽग्नौ निपात्यंते / पर्युपपूर्वाचिनोते_ण आयादेशश्च / परिचीयत इति परिचाय्योऽग्निः। एवमुपचाय्यः। परिचयः, उपचेयोऽन्यः / आपून्नियतेय॑ण् आयादेशश्च / गार्हपत्यादानीयते इत्यानाय्यो दक्षिणाग्निः। स ह्याहवनीयेन सह एकयोनिरेवोच्यते। आनेयोऽन्यः। केचिदग्निविशेषादन्यत्रापि अनित्यविशेष इच्छन्ति / आनाय्यो गोधुक् अनित्य इत्यर्थः। संपूर्वाद् वहेर्ध्यण ऊत्वं च वशब्दस्य / समुह्यत इति समूह्यः। अन्यः संवाह्यः। अन्ये तु संपूर्वादूहेरनावेवेति नियमार्थ घ्यणं निपातयन्ति / अग्नेरन्यत्र समूहितव्य इत्येव / वहेस्तु तन्मतेऽनावपि संवाह्य इति भवति / चिनोतेः क्यप् / 697 इस्वस्य तः पित्कृति // 4 / 4 / 114 // धुटीति निवृत्तमसंभवात् , अकितीति च 'सोस्तोपनिपि'इति सूत्राकरणात् / इस्खान्तस्य धातोः पिति कृत्पत्यये परे तोऽन्तः स्यात् / चित्योऽग्निः। चेयोऽन्यः। हूस्वस्येति किम् / ग्रामणीः। कृतीति
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy