________________ 665 पकरणम् ] सिद्धहैमबृहत्पक्रिया. वीरुध्न्यग्रोधशब्दौ धकारान्तौ निपात्येते / विरोहतीति वीरुत् / न्यग्रोहतीति न्यग्रोधः / अवरोध इत्यप्यन्ये / / 689 पाणिसमवाभ्यां सृजः // 6 / 1 / 18 // पाणिपूर्वात् समवपूर्वाच्च सृजेयण प्रत्ययः स्यात् / ऋदपान्त्यक्यपोऽपवादः / पाणिभ्यां सृज्यते पाणिसा रज्जुः / समवसृज्यते समवसर्ग्यः / पाणिसमवाभ्यामिति किम् / मृज्यम् / संसज्यम् / समवेति समुदायपरिग्रहार्थं द्विवचनम् / 690 उवर्णादावश्यके // 1 / 1 / 19 // अवश्यस्य भावोऽवश्यंभाव इति वा अकत्रि आवश्यकम् / तस्मिन् द्योत्ये उवर्णान्ताद् धातोर्पण स्यात् / लाव्यम् / पाव्यम् / यन्नियोगात् कर्तव्यम् अर्थपकरणादिना निश्चितं तत्रायं प्रत्ययः। लाव्यमवश्यम् / पाव्यमवश्यम् / अवश्यलाव्यम् / अवश्यपाव्यम् / अनावश्यंशब्देनापि अवश्यंभावो धोत्यते मयूरव्यंसकादित्वाच समासः / अवश्यस्तुत्य इति परत्वात् क्यप् / आवश्यक इति किम् / लव्यम् / पव्यम् / 691 आसुयुवपिरपिलपित्रपिडिपिदभिचम्यानमः // 1 / 1 / 20 // आयूर्वाभ्यां सुनोतिनमिभ्यां यौत्यादिभ्यश्च धातुभ्यो ध्यण् स्यात् / यापवादः / याव्यम् / वाप्यम् / राप्यम् / लाप्यम् / अभिलाप्यम् / अपत्राप्यम् / डेप्यम् / दमिः सौत्रो बन्धने वर्तते / दाभ्यम् / अवदाभ्यम् / आचाम्यम् / आनाम्यम् / नमिरन्तर्भूतण्यर्थः सकर्मकः / अकर्मका अपि धातवो ण्यर्थे वर्तमानाः सकर्मका भवन्ति यथा नेमि नमन्ति / डिपेः कुटादिखाये गुणो न लभ्यते इति ध्यण विधीयते / आनमेर्नेच्छन्त्येके। 692 वाधारेऽमावस्या // 5 / 1 / 21 // अमापूर्वाद् वसतेराधारे घ्यण प्रत्ययो धातोः पक्षे ह्रस्वश्च निपात्यते / अमाशब्दः सहार्थः / अमा-सह वसतोऽस्यां सूर्याचन्द्रमसाविति अमावस्या अमावास्या वा रूट्या तिथिविशेषः। पक्षे यमकृता इस्वनिपातनम् 'अश्चामावास्यायाः' इत्यत्रैकदेशविकृतस्यानन्यत्वादमावास्याशब्देन अमावस्याशब्दस्यापि ग्रहणार्थम् / 693 संचाय्यकुण्डपाय्यराजसूयं क्रती // 51 // 22 // एते क्रतावभिधेये घ्यणन्ता निपात्यन्ते आधारे कर्मणि वा // निपातनादेवायादेशदीर्घत्वे अपि 84