SearchBrowseAboutContactDonate
Page Preview
Page 677
Loading...
Download File
Download File
Page Text
________________ 664 सिद्धहैमबृहत्मक्रिया. [कृदन्त पञ्च प्रयाजाः / त्रयोऽनुयाजाः / एकादशोपयाजाः / उपांशुयाजाः / पत्नीसंयाजाः। क्रतुयाजाः / घळ याज इत्यप्यन्ये / यज्ञाङ्ग इति किम् / प्रयागः। अनुयागः / यागः। 682 घ्यण्यावश्यक // 4 / 1 / 115 // आवश्यकोपाधिके घ्यणि प्रत्यये परतो धातोश्वजोः कगौ न / अवश्यपाच्यम् / अवश्यरेच्यम् / अवश्यरज्यम् / अवश्यभज्यम् / आवश्यक इति किम् / पाक्यम् / रेक्यम् / रङ्ग्यम् / भङ्ग्यम् / 683 निप्राद्युजः शक्ये // 4 / 1 / 116 // निमाभ्यां परस्य युजः शक्येऽर्थे गम्यमाने घ्यणि परे गो न स्यात् / नियोक्तुं शक्यः नियोज्यः / प्रयोज्यः। शक्य इति किम् / नियोग्यः / प्रयोग्यः / 684 भुजो भक्ष्ये // 4 / 1 / 117 // भुजो भक्ष्येऽर्थे ध्यणि परे गो न स्यात् / भोज्यमन्नम् / भोज्या यवागूः / भोज्यं पयः / भक्ष्य इति किम् / भोग्यः कम्बलः। प्रावरणीय इत्यर्थः। भोग्या अपूपाः पालनीया इत्यर्थः / भक्ष्यमभ्यवहार्यमात्रम् न खरविशदमेव / यथा अब्भक्ष्यो वायुभक्ष्य इति / 685 त्यजयजप्रवचः॥ 4 / 1 / 118 // एषां ध्यणि कगौ न / त्याज्यम् / याज्यम् / अत एव प्रतिषेधाद्यजेय॑णपि / प्रवचिग्रहणं शब्दसंज्ञार्थम् / प्रवाच्यो नाम पाठविशेषः / तदुपलक्षितो ग्रन्थोऽप्युच्यते / उपसर्गनियमार्थ वा प्रपूर्वस्यैव वचेरशब्दसंज्ञायां प्रतिषेधो भवति नान्योपसर्गपूर्वस्य / अधिवास्यं नाम दशरात्रस्य यज्ञस्य यदशममहः। यस्मिन् याज्ञिका अधिब्रुवते तस्मिन्नेवाभिधानम् / अधिवाच्यमन्यत्र / 686 वचोऽशब्दनानि / 4 / 1 / 119 // अशब्दसंज्ञायां गम्यमानायां वचेय॑णि को न / वाच्यमाह / अवाच्यमाह / अशब्दनास्रीति किम् / वाक्यं विशिष्टः पदसमुदायः। 687 भुजन्युजं पाणिरोगे // 4 / 1 / 120 // भुजेनिपूर्वस्योब्जेश्च घबन्तस्य पाणौ रोगे चार्थे यथासंख्यं भुजन्युब्जौ निपात्येते। भुज्यतेऽनेनेति भुजः पाणिः। न्युब्जिताः शेरतेऽस्मिन् इति न्युब्जो नाम रोगविशेषः / अत्र धनि गत्वाभावो मुजेर्गुणाभावश्च निपात्यते / पाणिरोग इति किम् / भोगः / न्युद्गः / 688 वीरुन्न्यग्रोधौ // 4 / 1 / 121 // विपूर्वस्य रुहेः किपि न्यपूर्वस्य चाचि
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy