SearchBrowseAboutContactDonate
Page Preview
Page 676
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 663 ननु उदाजः समाजः इत्यत्र अजेः क्तेऽनिट्वात् गत्वं प्राप्नोति / नैवम् / क्तेऽनिट इति विद्यमानस्य विशेषणम् / अजेस्तु वीभावेन असत्त्वाद् गत्वं न / क्त इति किम् / अर्चः / अय॑म् / याच्यम् / रोच्यम् / अर्चादयो हि अर्कः याच्या रुक्ममिति प्रयोगेष्वनिटोऽपि क्ते सेट इति कत्वं न / धितीति किम् / पचनम् / त्यजनम् / 679 न्यङ्कद्गमेघादयः॥४।१।११२॥ न्यङ्क्वादयः कृतकला उद्गादयः कृतगवा मेघादयः कृतघखा निपात्यन्ते / न्यञ्चेरुप्रत्यये न्यकुः। तश्चिवञ्चिशुचीनां रकि तक्रम् , वक्रम् , शुक्रः। शुचिरुच्योर्घत्रि शोकः, रोगः / क्ते सेट्लान्न पामोति / घोऽन्यत्र शोच्यम् , रोच्यम् / श्वपाकः / मांसपाकः। पिण्डपाकः / कपोतपाकः / उलूकपाकः। पचेः 'कर्मणोऽण' इत्यणि सति अणभावे श्वपच इत्यादि। नीचेपाक; / दूरेपाकः / फलेपाकः। क्षणेपाकः। पचेींचे पच्यते स्वयमेवेति कर्मकर्तर्यचि दीर्घत्वं च निपातनात् / तत्पुरुषे कृतीति बहुलाधिकारात् सप्तम्या अलुप् / उकारान्ता अपि गणे पठ्यन्ते / नीचेपाकुः / फलेपाकुः / दूरेपाकुः / क्षणेपाकुः। अत एव निपातनादुकारः। नीचेपाका दूरेपाका फलेपाका इत्यावन्ता अपि / अनुब्रवीतीत्यच् अनुवाकः। सोमं प्रवक्तीत्यण सोमप्रवाकः। उचेः न्युच्यति समवैतीति लिहायचि न्योको वृक्षः शकुन्तो वा / उब्जेत्रि उद्गः / समुद्गः / न्युद्गः। अभ्युद्गः। क्ते सेट्वाद् गवमुपान्त्यस्य च दत्वं निपात्यते / सृजेः कर्तर्थचि सर्गः / अवसर्गः। उपसर्गः। पजेरचि व्यतिषङ्गः। अनुषङ्गः। मस्जेरुः। मद्गुः। भ्रस्जेः कुः सलोपश्च / भृगुः। युजेः 'कर्मणोऽण्' इत्यणि गोयोगः। मिहेरचि संज्ञायां हस्य घत्वम् / मेघः। अन्यत्र मेहः / वहेरनुपसर्गस्य वस्योकारश्च / वहतीत्योघः प्रवाहः। अनुपसर्गस्येत्येव / प्रवहः / विवहः / परिवहः। संवहः / उद्वहः / अभिवहः / निवह; / संज्ञायामित्येव / अर्हः / एवमविहितलक्षणानि कत्वगत्वचत्वानि द्रष्टव्यानि / 680 न वञ्चेर्गतौ॥४।१।११३॥ वश्चेर्गतौ वर्तमानस्य कत्वं न / वञ्चेर्घञ् / वश्वं वश्चति गन्तव्यं गच्छतीत्यर्थः / " पश्यैते व्याघवार्केण्यसंकुले वित्तवत्तमाः // रात्रावपि महारण्ये वञ्चं वश्चन्ति वाणिजाः"॥ गताविति किम् / वकं काष्ठम् / कुटिलमित्यर्थः / * 681 यजेर्यज्ञाङ्गे // 4 / 1 / 114 // यज्ञाङ्गे वर्तमानस्य यजेर्जस्य गत्वं न /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy