SearchBrowseAboutContactDonate
Page Preview
Page 675
Loading...
Download File
Download File
Page Text
________________ 662 सिद्धहैमबृहत्प्रक्रिया. [कृदन्त यतिभ्यो यो यः प्रत्ययो यश्च जनेराङ्पूर्वाभ्यां च पतिप्लुभ्यां ध्यण स कर्तरि वा निपात्यते / भवत्यसाविति भव्यः / पक्षे भव्यमनेन / गायतीति गेयो माणवकः सानाम् / गेयानि माणवकेन सामानि / जायतेऽसाविति जन्यः / जन्यमनेन / रमयत्यसौ रम्यः / रम्यते रम्यः / आपतत्यसावापात्यः / आपात्यमनेन / आप्लवतेऽसावाप्लाव्यः / आप्लाव्यमनेन / 674 प्रवचनीयादयः // 2 // 18 // प्रवचनीयादयः कर्तर्यनीयप्रत्ययान्ता वा निपात्यन्ते / प्रवक्ति प्रब्रूते वा प्रवचनीयो गुरुः शासनस्य / प्रवचनीयं गुरुणा शासनम् / उपतिष्ठत इति उपस्थानीयः शिष्यो गुरोः / उपस्थानीयः शिष्येण गुरुः। एवं रमयतीति रमणीयो देशः / मदयतीति मदनीया योषित् / दीपयतीति दीपनीयं चूर्णम् / मोहयतीति मोहनीयं कर्म / ज्ञानमाणोतीति ज्ञानावरणीयम् / एवं दर्शनावरणीयम् / 675 असरूपोऽपवादे वोत्सर्गः प्राक् क्तः / / 5 / 1 / 16 / / इतः सूत्रादारभ्य स्त्रियां क्तिरित्यतः प्राक् योऽपवादस्तद्विषयेऽपवादेनासमानरूप उत्सर्ग औत्सर्गिकः प्रत्ययो वा स्यात् / अवश्यलाव्यम् / अवश्यलवितव्यम् / अवश्यलवनीयम् / ज्ञः। ज्ञाता / ज्ञायकः / नन्दनः। नन्दकः। नन्दयिता / असरूप इति किम् / घ्यणि यो न स्यात् / कार्यम् / डविपयेऽण् न स्यात् / गोदः / अनुवन्धोऽप्रयोगी इति सारूप्यमेव / प्राक्क्तेरिति किम् / कृतिः / चितिः / रक्षितम् / रक्षणम् / घनादिन / चिकीर्षा / जिहीर्षा / क्तिन / ईषत्पानः / सुपानः। दुष्पानः / खल् न / अपवादत्यादिविषये तु असरूपोऽप्युत्सर्गत्यादिन प्रवर्तत इति 'श्रुसद ' इत्यादिसूत्रे वाग्रहणेन ज्ञापयिष्यते। 676 ते कृत्याः // 5 // 1 // 47 // ध्यण तव्य अनीय य क्यप् इत्येते प्रत्ययाः कृत्यसंज्ञाः स्युः / 677 वर्णव्यञ्जनाद् ध्यण् // 1 / 1 / 17 // ऋवर्णान्ताद् व्यञ्जनान्ताच धातोयेण् प्रत्ययः स्यात् / कार्यम् / हार्यम् / 678 क्तेऽनिटश्चजोः कगौ घिति // 4 / 1 / 111 // क्तेऽनिटो धातोश्चकारजकारयोः स्थाने घिति प्रत्यये यथासंख्यं कगौ स्याताम् / पाक्यम् / वाक्यम् /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy