SearchBrowseAboutContactDonate
Page Preview
Page 674
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सिद्धहैमबृहत्प्रक्रिया. 668 बहुलम् // 12 // अधिकारोऽयम् / कृत्पत्ययो यथानिर्दिष्टात् अर्थादेरन्यत्रापि बहुलं स्यात् / पादाभ्यां हियते पादहारकः। गले चोप्यत इति गलेचोपकः। मुह्यत्यनेनात्मेति मोहनीयं कर्म / स्नाति तेनेति स्नानीयं चूर्णम् / एवं यानीयोऽश्वः। दीयते तस्मै इति दानीयोऽतिथिः। संप्रदीयतेऽस्मै इति संप्रदानम् / एवं स्पृहणीया विभूतिः। समावर्तते तस्मादिति समावर्तनीयो गुरुः। एवमुदेजनीयः खलः / तिष्ठन्त्यस्मिन्निति स्थानीय नगरम् / एवं शयनीयः पल्यङ्कः। 669 कर्तरि // 5 // 1 // 3 // कृत्प्रत्ययोऽर्थविशेषनिर्देशमन्तरेण कर्तरि स्यात् / कारकः। कर्ता / पचः। नन्दनः। 670 व्याप्ये घुरकेलिमकृष्टपच्यम् // 5 // 1 // 4 // घुर केलिम इत्येतो प्रत्ययौ कृष्टपच्यशब्दश्च व्याप्ये कर्तरि स्यादिति वेदितव्यम् / घुरो वक्ष्यते / केलिमोऽत एव वचनाद् ज्ञायते / कृष्टपच्ये यश्च / भज्यते स्वयमेव भङ्गुरं काष्ठम् / एवं भिदुरः कुशूलः छिदुरा रज्जुः। भासमिदिविदां कर्तर्येव घुरः कर्मकर्तुरसंभवात् / भासते इत्येवंशीलो भासुरः। एवं मेदुरः / विदुरः। केचिच्छिदिभिदोरपि कर्तरि घुरमिच्छन्ति / दोषान्धकारभिदुरो दृप्तारिवक्षश्छिदुर इति / पच्यन्ते स्वयमेव पचेलिमा माषाः। एवं भिदेलिमास्तण्डुलाः। कृष्टे पच्यन्ते स्वयमेव कृष्टपच्याः शालयः। 671 सङ्गतेऽजर्यम् // 5 // 1 / 5 // संगमनं संगतम् / तस्मिन् कर्तर्यभिधेये नपूर्वान्जीयतेर्यप्रत्ययो निपात्यते। न जीर्यतीति अजयमायसंगतम् / मृगैरजर्य जरसोपदिष्टम् / सामान्यविशेषभावेन चोभयोरपि प्रयोगो भवति / तेन संगतमार्येण रामाजय कुरु द्रुतम् / अजय संगतं नोऽस्तु / संगत इति किम् / अजरः पटः / अजरिता कम्बलः / कर्तरीत्येव / अजायें संगतेन / 672 रुच्याव्यथ्यवास्तव्यम् // 5 / 1 / 6 / / एते कर्तरि निपात्यन्ते / रोचतेर्नपूर्वात् व्यथतेश्च क्यप् प्रत्ययो वसतेस्तु तव्यण् निपात्यते / रोचते इति रुच्यो मोदको मैत्राय / न व्यथते इत्यव्यथ्यो मुनिः। वसतीति वास्तव्यः / 673 भव्यगेयजन्यरम्यापात्याप्लाव्यं न वा // 17 // एते कर्तरि वा निपात्यन्ते / भावकर्मणोः प्राप्तयोः पक्षे कर्तरि विधानार्थमिदम् / भूगायतिरम
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy