________________ [कृदन्त 660 सिद्धहैमबृहत्मक्रिया. इत्येव भुञ्जते भुज्यते / पक्षे देवदत्तोऽत्ति गुरुदत्तोऽत्ति जिनदत्तोऽत्ति इत्येव भुञ्जते भुज्यते / ग्राममट वनमट गिरिमटेत्येवाटति घटते अठ्यते घट्यते / पक्षे ग्राममटति वनमटति गिरिमटतीत्येवाटति घटते अद्यते घट्यते / सक्तून् पिब धानाः खाद ओदनं भुङ्क्षवेत्येवाभ्यवहरति अभ्यवहियते / पक्षे सक्तून् पिबति धानाः खादति ओदनं भुङ्क्ते इत्येवाभ्यवहरति अभ्यवहियते / सूत्रमधीष्व नियुक्तिमधीष्व भाष्यमधीष्वेत्येवाधीते पठति अधीयते पठ्यते / पक्षे सूत्रमधीते नियुक्तिमधीते भाष्यमधीते इत्येवाधीते पठति अधीयते पठ्यते / तध्वमौ च तयुष्मदि / व्रीहीन् वपत लुनीत पुनीतेत्येव यतध्वे चेष्टध्वे समीहध्वे / व्रीहीन् वप लुनीहि पुनीहि इत्येव यतध्वे चेष्टध्वे समीहध्वे / पक्षे व्रीहीन् वपथ लुनीथ पुनीथेत्येव यतध्वे चेष्टध्वे समीहध्वे / ग्राममटत वनमटत गिरिमटतेत्येवाटथ घटध्वे / ग्राममट वनमट गिरिमटेत्येवाटथ घटध्वे / पक्षे ग्राममटथ वनमटथ गिरिमटथेत्येवाटथ घटध्वे / सूत्रमधीध्वं नियुक्तिमधीध्वं भाष्यमधीध्वमित्येवाधीध्वे पठथ / सूत्रमधीष्व नियुक्तिमधीष्वेत्येवाधीध्वे पठथ / पक्षे सूत्रमधीध्वे नियुक्तिमधीध्वे भाष्यमधीध्वे इत्येवाधीध्वे पठथ / एवं वचनान्तरे त्रिकान्तरे विभक्त्यन्तरेऽप्युदाहार्यम् / सामान्यार्थस्येति किम् / ब्रीहीन वप लुनीहि पुनीहीत्येव वपति लुनाति पुनातीति मा भूत् / ग्राममट वनमट गिरिमटेत्येव ग्राममटति वनमटति गिरिमटतीति च मा भूत् / कारकभेदेनाटतीत्यस्य सामान्या. र्थत्वाभावात् / // इति विभक्त्यर्थप्रक्रिया // // अथ कृदन्तप्रक्रिया // -तत्र // प्रथमं कृत्यप्रत्ययाः // 667 आ तुमोऽत्यादिः कृत् // 5 // 1 // 1 // धातोर्विधीयमानस्त्यादिवर्जितो वक्ष्यमाणः प्रत्ययस्तुममभिव्याप्य कृत्संज्ञः स्यात् / घनघात्यः / उदकेविशीर्णम् / गोदायो व्रजति / अत्यादिरिति किम् / पणिस्ते / कृत्मदेशाः तिकृतौ नाम्नीत्येवमादयः।