SearchBrowseAboutContactDonate
Page Preview
Page 672
Loading...
Download File
Download File
Page Text
________________ विभक्त्यर्थप्रक्रिया] सिद्धहैमबृहत्प्रक्रिया. 659 यूयं लुनीथ / छिन्थेति धातोः संबन्धे मा भूत् / अधीध्वमधीध्वमित्येव यूयमधीध्वे / पठथेति धातोः संवन्धे मा भूत् / लुनीहि लुनीहीत्यादौ च भृशाभीक्ष्ण्ये द्विवचनम् / ननु च भृशाभीक्ष्ण्ययोर्यङपि विधीयते न तु तत्र द्विवचनम् / इह तु द्विवचनमित्यत्र को हेतुः ? उच्यते / यङ् स्वार्थिकत्वात् प्रकृत्यपाधी भृशाभीक्ष्ण्ये समर्थोऽवद्योतयितुम् इति तदभिव्यक्तये द्विवचनं नापेक्षते / हिस्वादयस्तु कर्तृकर्मभावार्थत्वेनास्वार्थिकत्वादसमर्थाः प्रकृत्यर्थोपाधी भृशाभीक्ष्ण्ये अवद्योतयितुमिति तदवद्योतनाय द्विवचनमपेक्षन्ते इति / भृशाभीक्ष्ण्ये द्वित्वं तु अनेन-- 665 भृशाभीक्षण्याविच्छेदे द्विः प्राक्तमवादेः // 7 // 4 // 73 // क्रियायाः साकल्यमवयवक्रियाणां कात्स्न्ये भृशार्थः। पौनःपुन्यमाभीक्ष्ण्यम् / सातत्यं क्रियान्तरैरव्यवधानमविच्छेदः / एतेषु द्योत्येषु यत् पदं वाक्यं वा वर्तते तत् तमवादिप्रत्ययेभ्यः प्रागेव द्विरुच्यते / भृशे-लुनीहि लुनीहीत्येवायं लुनाति / आभीक्ष्ण्येभोज भोजं व्रजति / अविच्छेदे-पचति पचति / भृशादयश्च क्रियाधर्मा इति क्रियापदमेवात्र संवध्यते / क्रियाविशेषणस्यापि क्रियात्वेनाध्यवसायात् भृशादियोगे द्विवचनं भवति / यथा पुनः पुनः पचति / यदा तु क्रियारूपता न विवक्ष्यते तदा 'नवा गुणः सदृशे रित्' इति सादृश्ये द्विर्वचनं भवति। मन्दं मन्दं तुदति / स्तोकं स्तोकं अस्तमयति / एतेष्विति किम् / लुनीहि, भुक्त्वा ब्रजति / भृशाभीक्ष्ण्ययोर्यङिति यङन्तमुक्तार्थत्वान्न द्विरुच्यते / यदा तु भृशार्थ यङ् तदाभीक्ष्ण्यार्थाभिव्यक्तये द्विर्वचनं पापच्यते पापच्यते इति / यदा तु तत्प्रतिपादनाय पञ्चमी विधीयते तदा तस्या द्विवेचनसहायाया एवाभीक्ष्ण्यप्रतिपादने सामथ्ये क्त्वाणमोरिवेति द्विवचनमपि भवति / पापच्यस्व पापच्यस्वेति / प्राक्तमवादेरिति किम् / पचतिपचतितमाम् / पचतिपचतितराम् / अत्र तमवादेरातिशायिकात्पूर्वमेव द्विवचनं पश्चात्तमवादिः / अन्यथा ह्यनियमः स्यात् / 666 प्रचये नवा सामान्यार्थस्य // 5 // 4 // 43 // भृशाभीक्ष्ण्ये यथाविधीति च नानुवर्तते / प्रचयः समुच्चयः। स्वतः साधनभेदेन वा भिद्यमानस्य एकत्रानेकस्य धात्वर्थस्याध्यावाप इति यावत् / तस्मिन् गम्यमाने सामान्यार्थस्य धातोः संबन्धे सति धातोः परौ हिस्वौ तध्वमौ च तद्युष्मदि वा स्याताम् / श्रीहीन वप लुनीहि पुनीहि इत्येव यतते चेष्टते समीहते यत्यते चेष्टयते समीद्यते / पक्षे त्रीहीन् वपति लुनाति पुनातीत्येव यतते यत्यते / देवदत्तोऽद्धि गुरुदत्तोऽद्धि जिनदत्तोऽद्धि
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy