________________ विभक्त्यर्थप्रक्रिया ] सिद्धहेमबृहत्मक्रिया. भोक्तुम् / वावचनाद्यथाप्राप्तं च / कालो भोक्तव्यस्य। ऊर्ध्व मुहूर्तात् कालो भोक्तम् / ऊर्ध्व मुहूर्ताद् भोक्तुं स्म कालः / अङ्ग स्म राजन् भोक्तुं काल इत्येतेषु परत्वात्तुमेव / अवसर इति किम् / कालः पचति भूतानि / कालोऽत्र द्रव्यं न बवसरः। 661 सप्तमी यदि // 5 / 4 / 34 // यदि-यच्छब्दप्रयोगे सति कालादिषूपपदेषु धातोः सप्तमी स्यात् / तुमोऽपवादः। कालो यदधीयीत भवान् / वेला यद् भुञ्जीत भवान् / समयो यच्छयीत भवान् / बहुलाधिकारात्कालो यदध्ययनस्य .वेला योजनस्य समयो यच्छयनस्य इत्यायपि भवति / 662 शक्तार्हे कृत्याश्च / / 5 / 4 / 35 // शक्तेऽर्हे च कर्तरि गम्यमाने धातोः कृत्याः सप्तमी च स्यात् / भवता खलु भारो वाह्यः वोढव्यः वहनीयः उधेत / भवान् भारं वहेत् / भवान् हि शक्तः। अहे-भवता खलु कन्या वाह्या वोढव्या वहनीया / भवान् खलु कन्यां वहेत् / भवता खलु छेदसूत्रं वाह्यं वोढव्यं वहनीयम् / भवान् खलु छेदसूत्रं वहेत् / भवानेतदर्हति / सप्तम्या बाधो मा भूदिति कृत्यग्रहणम् / बहुवचनमिहोत्तरत्र च यथासंख्यनिवृत्त्यर्थम् / / 663 धातोः संबन्धे प्रत्ययाः // 5 // 4 // 41 // धातुशब्देन पावर्थ उच्यते / धावानां संबन्धे विशेषणविशेष्यभावे सति अयथाकालमपि प्रत्ययाः साधवः स्युः। विश्वदृ वास्य पुत्रो भविता / कृतः कटः श्वो भविता / भावि कृत्यमासीत् / विश्वदृश्वेति भूतकालः प्रत्ययो भवितेति भूतकालेन प्रत्ययेनाभिसंबध्यमानः साधुभवति / एवं कृतः कटः श्वो भवितेति / भावि कृत्यमासीदित्यत्र तु भावीति भविष्यत्कालः प्रत्ययः आसीदिति भूतकालेन प्रत्ययेनाभिसंबध्यमानः साधुर्भवति / विशेषणं गुणवाद् विशेष्यकालमनुरुध्यते / तेन विपर्ययो न / तथा त्याधन्तमपि यदाऽपरं त्यावन्तं पति विशेषणत्वेनोपादीयते तदा तस्यापि समुदायवाक्यार्थापेक्षया कालान्यत्वं भवत्येव / " साटोपमुर्वीमनिशं नदन्तो यैः प्लावयिष्यन्ति समन्ततोऽमी / तान्येकदेशान्निभृतं पयोधेः सोऽम्भांसि मेघान् पिबतो ददर्श " // अत्र प्लावयिष्यन्तीति भविष्यदर्थस्य ददर्शति भूतानुगमः / बहुवचनात् अधालधिकारविहिता अपि प्रत्ययास्तद्धिता धातुसंबन्धे सति कालभेदे साधवः / गोमानासीत्। गोमान् भविता / अस्तिविवक्षायां हि मतुरुक्तः। स कालान्तरे न स्यात् इति /