________________ 656 सिद्धहैमबृहत्पक्रिया. [आख्यातप्रकरणे औषः / अनुज्ञा कामचारानुमतिः / अतिसर्ग इति यावत् / अवसरः प्राप्तकालता। निमित्तभूतकालोपनतिः। भवता खलु कटः कार्यः कर्तव्यः करणीयः कृत्यः / भवान् कटं करोतु / भवान् हि प्रेषितोऽनुज्ञातः / भवतोऽवसरः कटकरणे। यद्यपि कृत्याः सामान्येन भावकर्मणोविहितास्तथापि सर्वप्रत्ययापवादभूतया पञ्चम्या बाध्येरनिति पुनर्विधीयन्ते। अनुज्ञायां केचित् सप्तम्येवेत्याहुः। अतिसृष्टो भवान् ग्रामं गच्छेत् / 656 सप्तमी चोर्ध्वमौहर्तिके // 5 // 4 // 30 // ऊर्ध्व मुहूर्तादुपरि मुहूर्तस्य भवोऽर्थ ऊर्ध्वमौहूर्तिकः / तस्मिन् वर्तमानाद् धातोः प्रैषादिषु गम्यमानेषु सप्तमी कृत्याः पञ्चमी च स्युः / ऊर्ध्व मुहूर्तात् कटं कुर्याद् भवान् / कार्यः कर्तव्यः करणीयः कृत्यः कटो भवता / कटं करोतु भवान् / भवान् हि प्रेषितोऽनुज्ञातो भवतोऽवसरः कटकरणे। ___657 इच्छार्थे कर्मणः सप्तमी // 89 // इच्छार्थे धातावुपपदे तुल्यकई केऽर्थे वर्तमानात्कर्मभूताद्धातोः संबन्धे सप्तमी विभक्तिः स्यात् / कर्मत्वं तुल्यकर्तृकत्वं च धातोः श्रुतवादुपपदापेक्षे। भुञ्जीयेतीच्छति / भुञ्जीयेति वाञ्छति। भुञ्जीयेति कामयते / इच्छार्थ इति किम् / भोजको व्रजति / कर्मण इति किम् / इच्छन् करोति / अत्र करोतीच्छत्योर्लक्ष्यलक्षणभावो न तु कर्मक्रियाभावः। तुल्यकर्तृक इति किम् / इच्छामि भुक्तां भवान् / 658 स्मे पञ्चमी // 5 // 4 // 31 // स्मशब्दे उपपदे प्रैषादिषु गम्यमानेषु ऊर्ध्वमौहूर्तिकेऽर्थे वर्तमानाद्धातोः पञ्चमी स्यात् / कृत्यानां सप्तम्याश्चापवादः। ऊर्च मुहूर्ताद् भवान् कटं करोतु स्म / भवान् हि प्रेषितोऽनुज्ञातो भवतोऽवसरः कटकरणे। 659 अधीष्टौ // 5 / 4 / 32 // ऊर्ध्वमौहूर्तिक इति निवृत्तं पृथग्योगात् / स्मे उपपदेऽधीष्टावध्येषणायां गम्यमानायां धातोः पञ्चमी स्यात् / सप्तम्यपवादः / अङ्ग स्म विद्वन्नणुव्रतानि रक्ष शिक्षाः प्रतिपद्यस्व / 660 कालवेलासमये तुम्वावसरे // 5 // 4 // 33 // कालवेलासमयशब्देषूपपदेष्ववसरे गम्यमाने धातोस्तुम् प्रत्ययो वा स्यात् / कालो वेला समयो वा