SearchBrowseAboutContactDonate
Page Preview
Page 668
Loading...
Download File
Download File
Page Text
________________ विभक्त्यर्थप्रक्रिया] सिद्धहैमबृहत्संक्रिया. शास्त्रान्तं गच्छेत् / यदि गुरूनुपासिष्यते शास्त्रान्तं गमिष्यति। अत्र गुरूपासनं हेतुः शास्त्रान्तगमनं फलम् / वय॑तीति किम् / दक्षिणेन चेद्याति न शकटं पर्याभवति / केचित्त सर्वेषु कालेषु सर्व विभक्त्यपवादं सप्तमी मन्यन्ते / दक्षिणेन चेयायात् न शकटं पर्याभवेत् / दक्षिणेन चेद्यास्यति न शकटं पर्याभविष्यति / दक्षिणेन चेद्याति न शकटं पर्याभवति / दक्षिणेन चेदयासीन शकटं पर्याभूत् / अत्रापि सप्तमीनिमितमस्तीति भविष्यति क्रियातिपतने क्रियातिपत्तिः। दक्षिणेन चेदयास्यन्न शकटं पर्याभविष्यत् / कथम् अमझ्यद्वसुधा तोये च्युतशैलेन्द्रवन्धना। नारायण इव श्रीमान् यदि त्वं नाधरिष्यथाः' इति। वय॑त्येवायं प्रयोगः। केचित्तु भूत इच्छन्ति / हनिष्यतीति पलायिष्यते, वर्षिष्यतीति धाविष्यतीत्यत्र तु हेतुफलभावस्य इतिशब्देनैव द्योतितत्वात् सप्तमी न / 653 कामोक्तावकञ्चिति // 1 / 4 / 26 // वेति निवृत्तम् / काम इच्छा तस्योक्तिः प्रवेदनं तस्यां गम्यमानायां धातोः सप्तमी स्यात् अकञ्चिति-न चेत् कच्चिच्छब्दः प्रयुज्यते / सर्व विभक्त्यपवादः। कामो मे भुञ्जीत भवान् / इच्छा मे अभिप्रायो मे श्रद्धा मे अभिलाषो मे अधीयात भवान् / अकचितीति किम् / कचिज्जीवति मे माता। अत्र सप्तमीनिमित्तमस्तीति भूते भविष्यति च क्रियातिपतने नित्यं क्रियातिपत्तिः / कामो मेऽभोक्ष्यत भवान् / 684 इच्छार्थे सप्तमीपञ्चम्यौ // 5 / 4 / 27 // इच्छार्थे धातावुपपदे कामोक्तौ गम्यमानायां धातोः सप्तमीपञ्चम्यौ स्याताम् / सर्वविभक्त्यपवादौ / इच्छामि भुञ्जीत भवान् / इच्छामि भुक्तां भवान् / कामये प्रार्थये अभिलषामि वश्मि अधीयीत भवान् , अधीतां भवान् / कामोक्तावित्येव / इच्छया इच्छतः कामयमानः कामयमानस्य भुङ्क्ते / नात्र प्रयोक्तुः कामोक्तिः। अत्र सत्यपि सप्तमीनिमित्ते इच्छार्थ उपपदे कामोक्तौ क्रियातिपतनस्य असामर्थ्येनासंभवात् क्रियातिपत्तिर्न / केचित्तु 'सप्तम्युताप्योर्बाढे ' इत्यत आरभ्य यत्र सप्तम्या एव केवलाया निमित्तमस्ति न विभक्त्यन्तरसहितायास्तत्रैव क्रियातिपतने क्रियातिपत्तिर्भवतीति मन्यन्ते / ___655 प्रैषानुज्ञावसरे कृत्यपञ्चम्यौ // 5 // 4 // 29 // प्रैषादिविशिष्टे कर्नादावर्थे धातोः कृत्यप्रत्ययाः पञ्चमी च विभक्तिः स्यात् / न्यत्कारपूर्विका प्रेरणा
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy