SearchBrowseAboutContactDonate
Page Preview
Page 667
Loading...
Download File
Download File
Page Text
________________ 654 सिद्धहैमबृहत्प्रक्रिया. [आख्यातपकरणे तद्विषये संभावने श्रद्धाने गम्यमाने तदर्थस्यालमर्थार्थस्य शब्दस्यानुक्तावप्रयोगे धातोः सप्तमी स्यात् / सर्वविभक्त्यपवादः / शक्यसंभावने-अपि मासमुपवसेत् / अपि पुण्डरीकाध्ययनमहाधीयीत / अपि स्कन्दकोद्देशं यामेनाधीयीत / अशक्यसंभावने-अपि शिरसा पर्वतं भिन्द्यात् / अपि खारीपाकं भुञ्जीत / अपि समुद्र दोभा तरेत् / अलमर्थ इति किम् / निदेशस्थायी मे जिनदत्तः प्रायेण गमिष्यति / तदर्थानुक्ताविति किम् / वसति चेत् सुराष्ट्रेषु वन्दिष्यतेऽलमुजयन्तं, शक्तश्चैत्रो धर्म करिष्यति / अत्र सप्तमीनिमित्तमस्तीति भूते भविष्यति क्रियातिपतने नित्यं क्रियातिपत्तिः / अपि पर्वतं शिरसाऽभेत्स्यत् / तथा काकिन्या हेतोरपि मातुः स्तनं छिन्यात इत्यत्र 'क्षेपेऽपिजालोर्वर्तमाना' इति वर्तमानां बाधिता चित्रमाश्चर्यमपि शिरसा पर्वतं भिन्द्यादित्यत्र तु 'शेषे भविष्यन्त्ययदौ ' इति भविष्यन्ती च बाधिला परत्वादनेन सप्तम्येव / 650 अयदि श्रद्धाधातौ न वा // 54 // 33 // श्रद्धा संभावना, तदर्थे धातावुपपदेऽलमर्थविषये संभावने गम्यमाने धातोः सप्तमी वा स्यात् अयदियच्छब्दश्चेन्न प्रयुज्यते / पूर्वेण नित्यं प्राप्ते विकल्पः / श्रद्दधे संभावयामि अवकल्पयामि भुञ्जीत भवान् / पक्षे यथामाप्तम् / भोक्ष्यते भवान् , अभुक्त भवान् , अभुङ्क्त भवान्। अयदीति किम् / संभावयामि यद्भुञ्जीत भवान् / श्रद्धाधाताविति किम / अपि शिरसा पर्वतं भिन्द्यात् / उभयत्र पूर्वेण नित्यं सप्तमी / अत्रापि सप्तमीनिमित्तस्तीति भूते भविष्यति च क्रियातिपतने नित्यं क्रियातिपत्तिः। संभावयामि नाभोक्ष्यत भवान् / 651 सतीच्छार्थात् // 5 // 4 // 24 // सति वर्तमानेऽर्थे वर्तमानादिच्छार्थाद् धातोः सप्तमी वा स्यात् पक्षे तु वर्तमानैव / इच्छेत् / इच्छति / उश्यात् / वष्टि / कामयेत / कामयते / वाञ्छेत् / वाञ्छति / 'क्षेपेऽपिजाखोर्वर्तमाना' इत्यादावपि परसादयमेव विकल्पः / अपि संयतः सन्नकल्प्यं सेवितुमिच्छेत् / अपि संयतः सन्नकल्प्यं सेवितुमिच्छति धिग् गर्हामहे / भूतभविष्यतोरभावात् सत्यपि सप्तमीनिमित्ते सत्यपि च क्रियातिपतने क्रियातिपत्तिर्न / 652 वय॑ति हेतुफले / / 5 / 4 / 25 // हेतुः कारणं, फलं कार्यम् / हेतुभूते फलभूते च वय॑त्यर्थे वर्तमानाद् धातोः सप्तमी वा स्यात् / यदि गुरूनुपासीत
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy