________________ विभक्त्यर्थप्रक्रिया ] सिद्धहमबृहत्मक्रिया. 653 645 क्षेपे च यच्चयत्रे // 1 / 4 / 18 // यच्चयत्रशब्दयोरुपपदयोः क्षेपे श्रद्धामर्षयोश्च गम्यमानयोर्धातोः सप्तमी स्यात् / अश्रद्धामर्षयोर्भविष्यन्त्याः क्षेपे तु सर्वविभक्तीनामपवादः / धिग् गमिहे यच्च तत्रभवानस्मानाक्रोशेत् / यत्र तत्रभवानस्मानाक्रोशेत् / न श्रद्दधे न क्षमे यच्च तत्रभवान् परिवादं कथयेत / अत्रापि सप्तमीनिमित्तमस्तीति भूते क्रियातिपतने वा क्रियातिपत्तिः। धिग् गर्हामहे न श्रद्दधे न क्षमे यच्च यत्र वा तत्रभवानस्मानाक्रोक्ष्यत्। पक्षे आक्रोशेत् / भविष्यति तु नित्यम् / धिग् गर्हामहे न श्रद्दधे न क्षमे यच्च यत्र वा तत्रभवान् परिवादमकथयिष्यत् / 646 चित्रे // 5 / 4 / 19 // चित्रमाश्चर्यम् / तस्मिन् गम्यमाने यच्चयत्रयोरुपपयोर्धातोः सप्तमी स्यात् / सर्वविभक्त्यपवादः / चित्रमाश्चर्यमद्भुतं विस्मयनीयं यच्च तत्रभवानकल्प्यं सेवेत। यत्र तत्रभवानकल्प्यं सेवेत। अत्रापि सप्तमीनिमित्तमस्तीति भूते क्रियातिपतने वा क्रियातिपत्तिः। चित्रं यच्च यत्र वा तत्रभवानकल्प्यमसेविष्यत / पक्षे सेवेत / भविष्यति तु नित्यम् / चित्रं यच्च यत्र वा तत्रभवानकल्प्यमसेविष्यत / 647 शेषे भविष्यन्त्ययदौ // 1 / 4 / 20 // शेषे यच्चयत्राभ्यामन्यस्मिन्नुपपदे चित्रे गम्यमाने धातोर्भविष्यन्ती विभक्तिः स्यात् अयदौ-यदिशब्दश्चेन्न प्रयुज्यते / सर्वविभक्त्यपवादः / चित्रमाश्चर्यमन्धो नाम पर्वतमारोक्ष्यति / बधिरो नाम व्याकरणं श्रोष्यति / मूको नाम धर्म कथयिष्यति / अत्र सप्तमीनिमित्तं नास्तीति न क्रियातिपत्तिः / शेष इति किम् / यच्चयत्रयोः पूर्वेण सप्तम्येव / अयदाविति किम् / आश्चर्थ यदि स भुञ्जीत / चित्रं यदि सोऽधीयीत / अत्र अश्रद्धाप्यस्तीति 'जातुयद्यदायदो सप्तमी' इत्यनेन सतमी / 648 सप्तम्युताप्योर्बाढे ! / 5 / 4 / 21 // बाढेऽर्थे वर्तमानयोरुताप्योरुपपदयोर्धातोः सप्तमी स्यात् / सर्वविभक्त्यपवादः / उत कुर्यात् / अपि कुर्यात् / बाढं करिष्यतीत्यर्थः। बाढ इति किम्। उत दण्डः पतिष्यति। अपिधास्यति द्वारम् / प्रश्नः पिधानं च यथाक्रमं गम्यते / वोतात्मागिति निवृत्तम् / इतःप्रभृति सप्तमीनिमित्ते सति भूते भविष्यति च क्रियातिपतने नित्यं क्रियातिपत्तिः / उताकरिष्यत् / अप्यकरिष्यत् / 649 संभावनेऽलमर्थे तदर्थानुक्तौ // 5 / 4 / 22 // अलमोऽर्थः सामर्थ्य,