________________ 652 सिद्धहैमबृहत्प्रक्रिया. [आख्यातप्रकरणे तु नित्यम् / किं तत्र भवाननृतमवक्ष्यत् / क्षेप इत्येव / किं तत्रभवान् देवानपूपुजदित्यादि। 642 अश्रद्धामर्षेऽन्यत्रापि // 5 / 4 / 15 // क्षेप इति निवृत्तम् / अश्रद्धा असंभावना / अमर्षोऽक्षमा / अन्यत्राकिंवृत्तेऽपिशब्दाद् किंवृत्ते चोपपदेऽश्रद्धामपयोर्गम्यमानयोर्धातोः सप्तमीभविष्यन्त्यौ स्याताम् / सर्वविभक्त्यपवादः / वचनभेदाद् यथासंख्यं नास्ति / अश्रद्धायाम् / न श्रद्दधे न संभावयामि नावकल्पयामि तत्रभवान्नामादत्तं गृह्णीयात् ग्रहीष्यति / किंवृत्तेऽपि-न श्रद्दधे न संभावयामि नावकल्पयामि किं तत्रभवान्नामादत्तमाददीत, अदत्तमादास्यते। अमर्षे-न मर्पयामि न क्षमे धिग् मिथ्या नैतदस्ति तत्रभवान्नामादत्तं गृह्णीयात् , अदत्तं ग्रहीष्यति / किंवृत्तेऽपि न मर्पयामि न क्षमे धिग् मिथ्या नैतदस्ति किं तत्रभवानदत्तं गृह्णीयात् ग्रहीष्यति / अत्रापि सप्तमीनिमित्तमस्तीति भूते क्रियातिपतने वा क्रियातिपत्तिः। न श्रद्दधे न मर्षयामि तत्र भवानदत्तमग्रहीष्यत् पक्षे गृह्णीयात् ग्रहीष्यति च / भविष्यति तु नित्यम् / न श्रद्दधे न मर्षयामि तत्रभवानदत्तमग्रहीष्यत् / अन्यत्रापीति किम् / यदार्थात् प्रकरणाद्वा श्रद्धामर्षयोर्गम्यमानखात् तद्वाचकेनाप्युपपदेन धातोर्न योगस्तदा मा भूत् / 643 किंकिलास्त्यर्थयोर्भविष्यन्ती // 1 / 4 / 16 // किंकिलेति समुदायशब्देऽस्त्यर्थे च शब्दे उपपदेऽश्रद्धामर्षयोगम्यमानयोर्धातोभविष्यन्ती स्यात् / सप्तम्यपवादः / वचनभेदादश्रद्धामर्ष इति यथासंख्यं नास्ति / न श्रद्दधे न मर्पयामि किंकिल नाम तत्रभवान् परदानुपकरिष्यते। गन्धनादिसूत्रेण साहसे आत्मनेपदम् / अस्त्यर्था अस्तिभवतिविद्यतयः / न श्रद्दधे न मर्पयामि अस्ति नाम भवति नाम विद्यते नाम तत्रभवान् परदारानुपकरिष्यते। अत्र सप्तमीनिमित्तं नास्तीति क्रियातिपतने क्रियातिपत्तिर्न / 644 जातुयद्यदायदो सप्तमी / / 5 / 4 / 17 // जातु यद् यदा यदि इत्येतेखूपपदेषु अश्रद्धामर्षयोर्गम्यमानयोर्धातोः सप्तमी स्यात् / भविष्यन्त्यपवादः / न श्रद्दधे न क्षमे जातु तत्रभवान् सुरां पिबेत् , यत्तत्रभवान् सुरां पिबेत् , यदा तत्रभवान् सुरां पिबेत् , यदि तत्रभवान् सुरां पिबेत् / अत्र सप्तमीनिमित्तमस्तीति भूते क्रियातिपतने वा क्रियातिपत्तिः। न श्रद्दधे न क्षमे जातु तत्रभवान् सुरामपास्यत् / पक्षे पिबेत् / भविष्यति तु नित्यम् / जातु तत्रभवान् मुरामपास्यत् /