________________ 651 विभक्त्यर्थप्रक्रिया] सिद्धहैमबृहत्पक्रिया. पुत्रोऽन्नार्थी चंक्रम्यमाणः अपरश्चातिथ्यर्थी यदि स तेन दृष्टोऽभविष्यत् उताभोक्ष्यत अप्यभोक्ष्यत न तु दृष्टोऽन्येन पथा गत इति न भुक्तवान् / 638 वोतात् प्राक् // 5 / 4 / 11 // ' सप्तम्युताप्योढेि ' इत्यत्र यदुतशब्दसंकीर्तनं ततः प्राक् सप्तमीनिमित्ते क्रियातिपत्तौ सत्यां भूतेऽर्थे वर्तमानाद् धातोर्वा क्रियातिपत्तिः स्यात् / कथं नाम संयतः सन्ननागाढे तत्रभवान् आधायकृतम् असे. विष्यत धिग गर्दामहे / वावचनाद्यथाप्राप्तं च / कथं सेवेत घिग् मर्दामहे / उतात् मागिति किम् / कालो यदभोक्ष्यत भवान् / भूत इत्येव / एष्यति नित्यमेव / ६३९क्षेपेऽपिजात्वोर्वर्तमाना / / 1 / 4 / 12 // भूत इति निवृत्तम् / क्षेपो गर्दा तस्मिन् गम्यमानेऽपिजाखोरुपपदयोर्धातोर्वर्तमाना विभक्तिः स्यात् / कालसामान्ये विधानात् कालविशेषे विहिता अपि प्रत्ययाः परसादनेन वाध्यन्ते / अपि तत्रभवान् जन्तून् हिनस्ति / जातु तत्रभवान् भूतानि हिनस्ति / अपि संयतः सन्ननागाढे तत्रभवानाधायकृतं सेवते धिग् गर्हामहे / इह सप्तमीनिमित्ताभावात् क्रियातिपतने क्रियातिपत्ति!दाहियते / 640 कथमि सप्तमी च वा / / 5 / 4 / 13 // कथंशब्दे उपपदे क्षेपे गम्यमाने धातोः सर्वेषु कालेषु सप्तमी चकाराद् वर्तमाना च विभक्ती वा स्याताम् / वावचनाद्यथाप्राप्तं च / कथं नाम तत्र भवान् मांस भक्षयेत् , मांसं भक्ष्यति घिग गर्हामहे, अन्याय्यमेतत् / पक्षे अबभक्षत् / अभक्षयत् / भक्षयाश्चकार / भक्षयिता / भक्षयिष्यति / अत्र सप्तमीनिमित्तमस्तीति भूते क्रियातिपतने वा क्रियातिपत्तिर्भवति / कथं नाम तत्र भवान् मांसमभक्षयिष्यत् / भक्षयेत् / भक्षयति / अबभक्षत् / अभक्षयत / भक्षयाञ्चकार। भविष्यति तु क्रियातिपतने नित्यमेव क्रियातिपत्तिः। कथं नाम तत्र भवान् मांसमभक्षयिष्यत् / न तु वर्तमानासप्तमीभविष्यन्तीश्वस्तन्यः / क्षेप इत्येव / कथं नाम तत्रभवान् साधूनपूपुजत् / एवं यथाप्राप्ति वर्तमानादयो भवन्ति / 641 किंवृत्ते सप्तमीभविष्यन्त्यौ // 5 / 4 / 14 // किंवृत्ते उपपदे क्षेपे गम्यमाने धातोः सप्तमीभविष्यन्त्यौ स्याताम् / सर्वविभक्त्यपवादः / किं तत्रभवाननृतं ब्रूयात् / किं तत्र भवाननृतं वक्ष्यति / को नाम कतरो नाम कतमो नाम यस्मै तत्र भवाननृतं ब्रूयात् , वक्ष्यति। अत्रापि सप्तमीनिमित्तमस्तीति भूते क्रियातिपतने वा क्रियातिपत्तिः / किं तत्र भवाननृतमवक्ष्यत् / पक्षे ब्रूयात् वक्ष्यति च / भविष्यति