________________ सिद्धहैमबृहत्मक्रिया. [ आख्यातपकरणे __635 कालस्यानहोरात्राणाम् // 5 // 47 // कालस्य योऽवधिस्तद्वाचिन्युपपदे कालस्यैवाग्भिागे य एष्यन्नर्थस्तत्र वर्तमानाद् धातोरनद्यतनविहितः प्रत्ययो न स्यात् अनहोरात्राणाम् न चेत् सोऽर्वागभागोऽहोरात्राणां संबन्धी स्यात् / योऽयमागामी संवत्सरस्तस्य यदवरं आग्रहायण्यास्तत्र जिनपूजां करिष्यामोऽतिथिभ्यो दानं दास्यामहे / एष्यतीत्येव / योऽयं संवत्सरोऽतीतस्तत्र युक्ता द्विरध्यैमहि / अवधावित्येव / योऽयमागामी निरवधिकः कालस्तत्र यदवरमाग्रहायण्यास्तत्र युक्ता अध्येतास्महे / अर्वाग्भाग इत्येव / परस्मिन् विभाषा वक्ष्यते / अनहोरात्राणामिति किम् / योऽयं मास आगामी तस्य योऽवरः पञ्चदशरात्रः तत्र युक्ता द्विरध्येतास्महे / योऽयं त्रिंशद्रात्र आगामी तस्य योऽवरोऽर्धमासस्तत्र द्विरोदनं भोक्तास्महे / योऽयं त्रिंशद्रात्र आगामी तस्य योऽवरः पञ्चदशरात्रस्तत्र द्विः सक्तून् पातास्म इति त्रिविधेऽप्यहोरात्रसंबन्धे मा भूत् / योगविभाग उत्तरार्थः / बहुवचनं कालस्येति सामानाधिकरण्यभ्रमनिरासार्थम् / 636 परे वा // 5 / 4.8 // कालस्य योऽवधिस्तद्वाचिन्युपपदे कालस्यैव परस्मिन् भागेऽनहोरात्रसंबन्धिनि य एष्यन्नर्थस्तत्र वर्तमानात् धातोरनद्यतनविहितः प्रत्ययो वा न स्यात् / आगामिनः संवत्सरस्याग्रहायण्याः परस्तात द्विः सूत्रमध्येष्यामहे, अध्येतास्महे वा / प्रबन्धासत्तिविवक्षायामपि परखात् अयमेव विकल्पः / आगामिनः संवत्सरस्याग्रहायण्याः परस्तादविच्छिन्नं सूत्रमध्येष्यामहे अध्येतास्महे वा / कालस्येत्येव / आ शत्रुञ्जयाद् गन्तव्येऽस्मिन्नध्वनि वलभ्याः परस्तात् द्विरोदनं भोक्तास्महे / प्रबन्धासत्योस्तु नित्यं भविष्यन्ती। आ शत्रुञ्जयाद् गन्तव्येऽस्मिन्नध्वनि वलभ्याः परस्तादविच्छिन्नं सूत्रमध्येष्यामहे / पर इति किम् / अर्वाग्भागे पूर्वेण नित्यं प्रतिषेधः / एष्यतीत्येव / अतीते वत्सरे परस्तादाग्रहायण्याः मुत्र युक्ता अध्यैमहि / अवधावित्येव / योऽयमागामी निरवधिकः कालस्तस्य यत्परमाग्रहायण्यास्तत्र द्विरध्येतास्महे / अनहोरात्राणामित्येव / योऽयं त्रिंशद्रात्र आगामी तस्य यः परः पञ्चदशरात्रस्तत्र युक्ता अध्येतास्महे / / . 637 भूते // 5 / 4 / 10 // भूतेऽर्थे वर्तमानाद् धातोः क्रियातिपत्तौ सत्याम् सप्तम्यर्थे क्रियातिपत्तिर्विभक्तिः स्यात् / सप्तम्युताप्यो ढे' इत्यारभ्य सप्तम्यर्थे - नेन विधानम् / ततः प्राक् 'वोतात् माक्' इति विकल्पो वक्ष्यते / दृष्टो मया भवतः