________________ विभक्त्यर्थपक्रिया ] सिद्धहैमबृहत्मक्रिया. 649 चेदागच्छति आगमत् आगमिष्यति आगन्ता आशंसेऽवकल्पये संभावये युक्तोऽधीय। द्वयोरुपपदयोः सप्तम्येव शब्दतः परत्वात् / आशंसे शिपमधीयीय / 632 संभावने सिद्धवत् // 7 // 44 // हेतोः शक्तिश्रद्धानं संभावनम् / तस्मिन् विषयेऽसिद्धेऽपि वस्तुनि सिद्धवत् प्रत्ययाः स्युः / " समये चेत्प्रयत्नोऽभूत् उदभूवन् विभूतयः / इषे चेन्माधवोऽवर्षात् समपत्सत शालयः // जातश्चायं मुखेन्दुश्चेत् भृकुटिप्रणयी पुनः / गतं च वसुदेवस्य कुलं नामावशेषताम् " // 633 नानद्यतनः प्रबन्धासत्योः / / 5 / 4 / // प्रबन्धः सातत्यम् / आसत्तिः सामीप्यम् / तच्च कालतः / सजातीयेन कालेनाव्यवहितकालतेति यावत् / धातर्थस्य प्रबन्धे आसत्तौ च गम्यमानायां धातोरनद्यतनविहितः प्रत्ययो न स्यात् / भूतानद्यतने ह्यस्तनी भविष्यदनद्यतने च श्वस्तनी विहिता तयोः प्रतिषेधः / यावज्जीवं भृशमन्नं दास्यति / यावज्जीवं युक्तोऽध्यापिपत् / यावज्जीवं युक्तोऽध्यापयिष्यति / आसत्तौ खल्वपि-येयं पौर्णमास्यतिक्रान्ता एतस्यां जिनमहः प्रावर्तिष्ट, प्रवृत्तः। येयं पौर्णमास्यागामिनी अस्थां जिनमहः प्रवर्तिष्यते / द्वौ प्रतिषेधौ यथाप्राप्तस्याभ्यनुज्ञानाय। केचित्तु अनद्यतनविशेषविहितानामपि परोक्षादीनां प्रतिषेधमिच्छन्ति / 634 एष्यत्यवधौ देशस्यार्वाग्भागे // 5 // 46 // देशस्य योऽवधिस्तद्वाचिन्युपपदे देशस्यैवार्वाग्भागे य एष्यन्नर्थस्तत्र वर्तमानाद् धातोरनद्यतनविहितः प्रत्ययो न स्यात् / अप्रबन्धार्थमनासत्त्यर्थं च वचनम् / यद्यप्यनद्यतन इति प्रकृतं तथापीहैष्यतीति वचनात् श्वस्तन्या एव निषेधः / योऽयमध्वा गन्तव्य आ शत्रुञ्जयात् तस्य यदवरं वलभ्यास्तत्र द्विरोदनं भोक्ष्यामहे द्विः सक्तून् पातास्मः। योऽय मध्वा गन्तव्य आ पाटलिपुत्रात् तस्य यदवरमधं तत्रौदनं भोक्ष्यामहे / एष्यतीति किम् / योऽयमध्वातिक्रान्त आ शत्रुजयात् तस्य यदवरं वलभ्यास्तत्र युक्ता द्विरध्यैमहि, द्विः सक्तूनपिबाम / अवधाविति किम् / योऽयमध्वा निरवधिको गन्तव्यस्तस्य यदवरं वलभ्यास्तत्र द्विरोदनं भोक्तास्महे, द्विः सक्तून् पातास्मः / अर्वाग्भाग इति किम् / योऽयमध्वा गन्तव्य आ शत्रुजयात् तस्य यत् परं वलभ्यास्तत्र द्विरोदनं भोक्तास्महे, द्विः सक्तून् पातास्मः। 82