________________ सिद्धहैमबृहत्प्रक्रिया. [आख्यातप्रकरणे भूवनिति पुनर्णकज्विधानम् / तेनौदनस्य पाचको व्रजति पक्ता व्रजति पचो व्रजति विक्षिपो व्रजतीत्यादि न भवति / 629 सत्सामीप्ये सद्वद्वा॥५॥४१॥समीपमेव सामीप्यम् / सतो वर्तमानस्य सामीप्ये भूते भविष्यति चार्थे वर्तमानाद धातोः सद्वर्तमानवत् प्रत्यया वा स्युः / सतीति सूत्रादारभ्यापादपरिसमाप्तेविहिताः प्रत्यया भूतभविष्यतोर्वा अतिदिश्यन्ते / कदा चैत्रागतोऽसि / अयमागच्छामि / आगच्छन्तमेव मां विद्धि / वावचनाद् यथाप्राप्तं च / अयमागमम् / एषोऽस्म्यागतः। कदा मैत्र गमिष्यसि / एप गच्छामि / गच्छन्तमेव मां विद्धि। पक्षे एष गमिष्यामि गन्तास्मि / गमिष्यन्तमेव मां विद्धि / वत्करणस्य सादृश्यार्थत्वात् येनैव प्रकृत्युपपदोपाध्यादिना विशेषेण वर्तमाने विहितास्ते नैव विशेषेण भूतभविष्यतोरपि भवन्ति / कदा भवान् सोमं पूतवान् पविष्यते वा / एषोऽस्मि पवमानः / कदा भवानिष्टवान् यक्ष्यते वा। एषोऽस्मि यजमानः / कदा भवान् कन्यामलंकृतवान् करिष्यते वा / एषोऽस्म्यलंकरिष्णुरिति / सामीप्य इति किम् / परुदगच्छत् / वर्षेण गमिष्यति / . 630 भूतवच्चाशंस्ये वा // 542 // अनागतस्य प्रियस्यार्थस्याशंसनं प्राप्तुमिच्छा आशंसा / तद्विषय आशंस्यः / तस्मिन्नर्थे वर्तमानाद् धातोभूतवच्चकारात् सद्वच्च प्रत्यया वा स्युः। आशंस्यस्य भविष्यत्त्वादयमतिदेशः। वाग्रहणाद् यथाप्राप्त च / उपाध्यायश्चेदागमत् एते तर्कमध्यगीष्महि / उपाध्यायश्चेदागत एतैस्तर्कोऽधीतः। उपाध्यायश्चेदागच्छति एते तर्कमधीमहे। पक्षे उपाध्यायश्चेदागमिष्यति एते तर्कमध्येष्यामहे / उपाध्यायश्चेदागन्ता एते तर्कमध्येतास्महे / सामान्यस्यातिदेशे विशेषस्यानतिदेशात् ह्यस्तनीपरोक्षे न भवतः / आशंस्य इति किम् / उपाध्याय आगमिष्यति तर्कमध्येष्यते मैत्रः / 631 क्षिप्राशंसायोभविष्यन्तीसप्तम्यौ / / 5 / 4 / 3 / / क्षिप्रार्थ आशंसाथै चोपपदे आशंस्येऽर्थे वर्तमानाद् धातोर्यथासंख्य भविष्यन्तीसप्तम्यौ विभक्ती स्याताम् / भूतवच्चेत्यस्यापवादः। उपाध्यायश्चेदागच्छति आगमत् आगमिष्यति आगन्ता क्षिप्रमाशु खरितमरं शीघ्रमेते सिद्धान्तमध्येष्यामहे / सिपाथै नेति वक्तव्ये भविष्यन्तीवचनं श्वस्तनीविषयेऽपि भविष्यन्ती यथा स्यादित्येवमर्थम् / उपाध्यायश्वेच्छः शीघ्रमागमिष्यति एते श्वः क्षिपमध्येष्यामहे / आशंसाथै खल्वपि / उपाध्याय