________________ विभक्त्यर्थप्रक्रिया] सिद्धहैमबृहत्पक्रिया. 647 ददाति दास्यति दाता वा / किंवृत्त इति किम् / भिक्षां दास्यति / लिप्सायामिति किम् / कः सिद्धपुरं यास्यति / 625 लिप्स्यासिद्वौ // 8 // 3 // 10 // लब्धुमिष्यमाण ओदनादिलिप्स्यस्तस्मात् सिद्धौ स्वर्गाद्यवाप्तिलक्षणायां गम्यमानायां वय॑त्यर्थे वर्तमानाद् धातोर्वा वर्तमाना स्यात् / पक्षे भविष्यन्तीश्वस्तन्यावपि / अकिंवृत्तार्थोऽयमारम्भः। यो भिक्षां ददाति दास्यति दाता वा स स्वर्गलोकं याति यास्यति याता वा / लिप्स्यात् भक्तात् स्वर्गसिद्धिमाचक्षाणो दातारं प्रोत्साहयति / 626 पञ्चम्यर्थहेतौ // 5 // 3 // 11 // पञ्चम्यर्थः प्रैपादिस्तस्य हेतुनिमित्तमुपाध्यायागमनादि तस्मिन्नर्थे वर्त्यति वर्तमानाद् धातोर्वर्तमाना वा स्यात् / पक्षे भविष्यन्तीश्वस्तन्यावपि / उपाध्यायश्चेदागच्छति आगमिष्यति आगन्ता वा अथ त्वं सूत्रमधीष्व। अथ खमनुयोगमादत्स्व / अत्र भविष्यदुपाध्यायागमनमध्ययनादिविषयस्य औषस्यातिसर्गस्य प्राप्तकालतायाश्च हेतुर्भवति / 627 सप्तमी चोर्ध्वमौहर्तिके // 5 // 3 / 12 // ऊर्य मुहूर्ताद् भव ऊर्ध्वमौहर्तिकः / नाम नाम्नेति समासः। उत्तरपदवृद्धिस्त्वस्मादेव निर्देशात् / पञ्चम्यथंहे तो ऊर्ध्वमौहूर्तिके वय॑त्यर्थे वर्तमानाद् धातोः सप्तमी चकाराद् वर्तमाना च विभक्तिर्दा स्यात् / पक्षे भविष्यन्तीश्वस्तन्यावपि ! ऊ मुहूर्तादुपरि मुहूर्तस्य परं मुहूर्तादुपाध्यायश्चेदागच्छेत् आगच्छति आगमिष्यति आगन्ता वा अथ त्वं तर्कम धीष्व अथ त्वं सिद्धान्तमधीष्व / 628 क्रियायां क्रियार्थायां तुम्णकच्भधिष्यन्ती // 12 // 13 // वेति निवृत्तम् / यस्माद् धातोस्तुमादिस्तद्वाच्या या क्रिया सार्थः प्रयोजनं यस्याः सा क्रियार्था / तस्यां क्रियायामुपपदे वय॑त्यर्थे वर्तमानाद् धातोस्तुम्णकचभविष्यन्तीप्रत्ययाः स्युः। कर्तुं व्रजति / कारको व्रजति / करिष्योमीति व्रजति / भोक्तुं व्रजति / भोजको व्रजति / भोक्ष्ये इति व्रजति / क्रियायामिति किम् / भिक्षिष्ये इत्यस्य जटाः। क्रियार्थायामिति किम् / धावतस्ते पतिष्यति वासः / अत्रास्ति धावनक्रियोपपदम् , न खसौ पतनार्थमुपात्तेति न भवति / णकतृचाविति सामान्येन सिद्धे क्रियार्थीपपदभाविन्या भविष्यन्त्या बाधा मा भूदिति णकविधानम् / असरूपविधिना णकोऽपि भविष्यतीति चेदेवं तर्हि असरूपविधिना तृजादयो मा