SearchBrowseAboutContactDonate
Page Preview
Page 659
Loading...
Download File
Download File
Page Text
________________ 646 सिद्धहैमबृहत्पक्रिया. [आख्यातमकरणे वर्तमानाद् धातोः सद्वत्-वर्तमान इव वर्तमाना विभक्तिः स्यात् / सद्वद्वचनादत्र विषये शत्रानशावपि भवतः / किमकार्षीः कटं चैत्र / ननु करोमि भोः / ननु कुर्वन्तं कुर्वाणं मां पश्य / किमयोयः किंचिच्चैत्र / ननु ब्रवीमि भोः। ननु ब्रुवन्तं ब्रुवाणं मां पश्य / पृष्टोक्ताविति किम् / नन्वकार्षीचैत्रः कटम् / ___620 नन्वोर्वा // 5 / 2 / 18 // न नु इत्येतयोः शब्दयोरुपपदयोः पृष्टोक्तौ भूतेऽर्थे वर्तमानाद् धातोर्वा वर्तमाना विभक्तिः सा च सद्वत् / किमकार्षीः कटं चैत्र / न करोमि भोः। न कुर्वन्तं न कुर्वाणं पश्य माम् / नाकार्षम् / कस्तत्रावोचत् / अहं नु ब्रवीमि / ब्रुवन्तं ब्रुवाणं तु मां पश्य / अहं न्ववोचम् / 5 621 परिदेवने // 5 // 3 // 6 // परिदेवनमनुशोचनम् / तस्मिन् गम्यमाने वर्त्यति धात्वर्थे वर्तमानाद् धातोः श्वस्तनी विभक्तिः स्यात् / अनद्यतनार्थ आरम्भः / इयं तु कदा गन्ता यैवं पादौ निदधाति / अयं तु कदाध्येता य एवमनभियुक्तः / विशेषविधानात् कदाकर्हिलक्षणा विभाषा बाध्यते / 622 पुरायावतोर्वर्तमाना / / 5 / 3 / 7 // पुरायावतोर्निपातयोरुपपदयोर्वर्त्यति धात्वर्थेवर्तमानाद् धातोर्वर्तमाना विभक्तिः स्यात् / पुरा भुङ्क्ते। यावद् भुङ्क्ते। भविष्यदनद्यतनेऽपि परत्वाद् वर्तमानैव / पुरा श्वो भुङ्क्ते / यावच्छ्वो ब्रजति / लाक्षणिकत्वादिह न / महत्या पुरा जेष्यति ग्रामम् / यावद्दास्यते तावद् भोक्ष्यते / यत्परिमाणमित्यर्थः / 693 कदाकोनवा // 5 // 3 // 8 // कदाकोरुपपदयोर्वय॑त्यर्थे वर्तमानाद् धातोर्वर्तमाना वा स्यात् / पक्षे भविष्यन्तीश्वस्तन्यावपि / कदा भुङ्क्ते / कदा भो. क्ष्यते / कदा भोक्ता / कर्हि भुङ्क्ते / कर्हि भोक्ष्यते इति / कहिशब्दस्य अनयतनार्थवृत्तित्वान प्रामोति, श्वो गमिष्यतीत्यादिवत्तु भविष्यति / भूते तु नित्यं परोक्षादयः / कदा बुभुजे / कदा भुक्तवान् / कहिँ बुभुजे / कर्हि भुक्तवान् / 624 किंवृत्ते लिप्सायाम् // 5 // 3 // 9 // विभक्त्यन्तस्य डतरडतमान्तस्य च किमो वृत्तं किंवृत्तमिति वैयाकरणसमयः / तेन किंतरां किंतमामिति न किंवृत्तम् / तस्मिन्नुपपदे प्रष्टुलिप्सायां गम्यमानायां वय॑त्यर्थे वर्तमानाद् धातोर्वर्तमाना वा स्यात् / पक्षे भविष्यन्तीश्वस्तन्यावपि / लब्धुमिच्छा लिप्सा / को भवतां भिक्षा
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy