SearchBrowseAboutContactDonate
Page Preview
Page 658
Loading...
Download File
Download File
Page Text
________________ विभक्त्यर्थप्रक्रिया ] सिद्धहैमबृहत्पक्रिया. 645 616 अविवक्षिते // 2 // 2 // 14 // भूतानद्यतने परोक्षे परोक्षत्वेनाविवक्षितेऽर्थे वर्तमानाद् धातोह्यस्तनी स्यात् / अभवत् सगरो राजा। अहन् कंसं वासुदेवः / एवं च परोक्षानद्यतने विवक्षावशादद्यतनीयस्तनीपरोक्षास्तिस्रो विभक्तयः सिद्धाः। तथा च अन्वनैपीत् ततो वाली न्यक्षिपञ्चाङ्गदं सुग्रीवं पोचे सद्भावमागतः / राक्षसेन्द्रस्ततोऽभैषीत् सैन्यं समस्तं सोऽयुयुत्सयत् स्वयं युयुत्सयाश्चक्रे / तथा 'अभूवस्तापसाः केचित पाण्डुपत्रफलाशिनः। पारिव्राज्यं तदादत्त मरीचिश्च तृषार्दितः // इति / 617 वाद्यतनी पुरादौ // 5 / 2 / 15 // परोक्षे इति निवृत्तम् / भूतानद्यतने परोक्षे चापरोक्षे चार्थे वर्तमानाद् धातोः पुरा इत्यादावुपपदेऽद्यतनी वा स्यात् / अपरोक्षे ह्यस्तन्याः परोक्षे तु परोक्षाया अपवादः। वावचनात् पक्षे यथामाप्ति ते अपि भवतः / अवात्सुरिह पुरा छात्राः। अवसनिह पुरा छात्राः / ऊघुरिह पुरा छात्राः / तदाभाषिष्ट राघवः / तदाभाषत राघवः / बभाष राघवस्तदा / भूतानद्यतनपरोक्षेऽद्यतनी नेच्छन्त्यन्ये / एवमुत्तरसूत्रे पुरादियोगे वर्तमानाम् / हशश्वच्छब्दयोगेऽपि पुरादियोगे परत्वाद् विकल्पेनाद्यतनी। इति ह पुराकार्षीत् / अकरोत् / चकार / शश्वत् पुराकार्षीदकरोच्चकार / भूतमात्रविवक्षया अद्यतन्याः सिद्धौ पुरादियोगे तद्वचनं स्मृत्यर्थहशश्वत्स्मयोगे सामान्यविवक्षया अद्यतनी न भवतीति ज्ञापनार्थम् / 618 स्मे च वर्तमाना // 5 / 2 / 16 // भूतानद्यतने परोक्षेऽपरोक्षे चार्थे वर्तमानाद धातोः स्मशब्दे पुरादौ चोपपदे वर्तमाना स्यात् / इति स्मोपाध्यायः कथयति / पृच्छति स्म पुरोधसम् / वसन्तीह पुरा छात्राः / भापते राघवस्तदा / अथाह वर्णी विदितो महेश्वरः / यावद् गिरः खे मरुतां चरन्ति / आदिग्रहणमिह पूर्वत्र च प्रयोगानुसरणार्थम् / एवं च पुरादियोगेऽद्यतनीयस्तनीपरोक्षावर्तमानाचतस्रो विभक्तयः सिद्धाः / स्मपुरायोगे तु परत्वाद् वर्तमानैव / नटेन स्म पुराधीयते / एवं हशश्वत्स्मयोगेऽपि / इति ह स्मोपाध्यायः कथयति / शश्वदधीयते स्म / त्रययोगेऽपि एवम् / न ह स्म वै पुराग्निरपरशु क्णं दहतीति / 619 ननौ पृष्टोक्तौ सद्धत् // 5 / 2 / 17 // अनद्यतन इति निवृत्तम् / पृष्टस्य धात्वर्थस्योक्तिः प्रतिवचनं पृष्टोक्तिः। ननुशब्दे उपपदे पृष्टोक्तौ भूतेऽर्थे
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy