SearchBrowseAboutContactDonate
Page Preview
Page 657
Loading...
Download File
Download File
Page Text
________________ 644 सिद्धहैमबृहत्प्रक्रिया. [आख्यातपकरणे प्रयुज्यते / अभिजानासि देवदत्त कश्मीरेषु वत्स्यामः / स्मरसि साधो स्वर्गे स्थास्यामः। एवं बुध्यसे चेतयसे अध्येष्यवगच्छसि चैत्र कलिङ्गेषु गमिष्यामः। अयदीति किम् / अभिजानासि मित्र यत् कलिङ्गेष्ववसाम / 613 वाऽऽका क्षायाम् // 5 // 2 // 10 // अयदीति नानुवर्तते / स्मृत्यर्थे धातावुपपदे सति यद्ययदि वा प्रयुज्यमाने प्रयोक्तुः क्रियान्तरावायां सत्यां भूतानद्यतनेऽर्थे वर्तमानाद् धातोर्भविष्यन्ती वा स्यात् / स्मरसि मित्र कश्मीरेषु वत्स्यामस् तत्रौदनं भोक्ष्यामहे पास्यामः पयांसि च / स्मरसि मित्र कश्मीरेष्ववसाम तत्रौदनमभुमहि / स्मरसि मित्र यत् कश्मीरेषु वत्स्यामो यत्तत्रौदनं भोक्ष्यामहे / स्मरसि मित्र यत् कश्मीरेष्ववसाम यत्तत्रौदनमभुज्महि / अत्र वासो लक्षणं भोजनं पानं च लक्ष्यमिति लक्ष्यलक्षणयोः संवन्धे प्रयोक्तुराकाङ्क्षा भवति / 614 कृतास्मरणातिनिह्नवे परोक्षा // 5 // 2 // 11 // कृतस्यापि व्यापारस्य चित्तव्याक्षेपादिनाऽस्मरणेऽत्यन्तापह्नवे वा गम्यमाने भूतेऽनद्यतनेऽर्थे वर्तमानाद धातोः परोक्षा विभक्तिः स्यात् / अपरोक्षकालार्थ आरम्भः। सुप्तोऽहं किल विललाप / मत्तोऽहं किल विचचार / चिन्तयन् किलाहं शिरः कम्पयांबभूव / अङ्गलिं स्फोटयामास / अतिनिह्नवे-कश्चित् केनचिदुक्तः कलिङ्गेषु त्वया ब्राह्मणो हतः स तदपनुवान आह-कः कलिङ्गान् जगाम को ब्राह्मणं ददर्श नाहं कलिगान् जगाम इत्यत्यन्तमपड्नुते / अतिग्रहणादेकदेशापह्नवे ह्यस्तन्येव / न कलिङ्गेषु ब्राह्मणमहमहनम् / 615 हशश्वद्युगान्तःप्रच्छये यस्तनी च // 5 // 2 // 13 // पञ्चवर्ष युगं तस्यान्तर्मध्यं तत्र पृच्छयते यः स युगान्तःपृच्छयः / हे शश्वति च प्रयुज्यमाने युगान्तःप्रष्टव्ये च भूतानद्यतने परोक्षेऽर्थे वर्तमानाद् धातोयस्तनी परोक्षा च विभक्ती स्याताम् / इति हाकरोत् / इति ह चकार / शश्वदकरोत् / शश्वच्चकार / प्रच्छथे-किमगच्छस्त्वं मथुराम् / किं जगन्थ त्वं मथुराम् / हशश्वद्युगान्तःपृच्छय इति किम् / जघान कंसं किल वासुदेवः / वेत्येव कृते भूतानद्यतनमात्रभाविन्या ह्यस्तन्याः पक्षे सिद्धौ बस्तनीविधानं स्मृत्यर्थयोगेऽपि ह्यस्तन्येव यथा स्यान्न भविष्यन्तीत्येवमर्थम् / तेन स्मरसि मित्र कश्मीरेष्धिति हाध्यैमहि अभिजानासि चैत्र शश्वदध्यैमहीत्यादि सिद्धम् / क्रियान्तराकाङ्क्षायां तु हशश्वत्प्रयोग एव न संभवतीति नोदाहियते /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy