SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ विभक्त्यर्थप्रक्रिया ] सिद्धहैमबृहत्पक्रिया. 643 अनूवास / वावचनाद्यथास्वकालमद्यतनी ह्यस्तनी च / उपाश्रौषीत् / उपाशृणोत् / उपासदत / उपासीदत् / अन्ववात्सीत् / अन्ववसत् / एवं शुश्रुवे, अश्रावि अश्रूयतेत्यादि। अन्ये तु श्वादिभ्यो भूतमात्रे कसुमेवेच्छन्ति न परोक्षाम् / ह्यस्तनीमयीच्छत्यन्यः / बहुवचनं व्याप्त्यर्थम् / तेन भूतानद्यतनेऽपीयं हस्तन्या न बाध्यते / असरूपत्वादेवाद्यतन्यादिसिद्धौ वावचनं विभक्तिष्वसरूपोत्सर्गविभक्तिसमावेशनिषेधार्थम् / 609 विशेषाविवक्षाव्यामिश्रे // 5 // 25 // अनद्यतनादिविशेषस्याविवक्षायां व्यामिश्रणे च सति भूतेऽर्थे वर्तमानाद् धातोरद्यतनी विभक्तिः स्यात् / अकार्षीत् / अहार्षीत् / अगमाम घोषान् / अपाम पयः / अजैपीत् गर्तो हूणान् / रामो वनमगमत् / सतोऽप्यत्र विशेषस्याविवक्षा यथाऽनुदरा कन्या अलोमिका एडकेति / व्यामिश्रे-अद्य ह्यो वाभुक्ष्महि / विशेषाविवक्षेति किम् / अगच्छाम घोषान् / अपिबाम पयः / अजयद् गर्तो हूणान् / रामो वनं जगाम। ह्यस्तन्यादि विषयेऽप्यद्यतन्यर्थ वचनम् / 610 रात्रौ वसोऽन्त्ययामास्वप्तर्यद्य // 5 // 2 // 6 // रात्रौ भूतेऽर्थे वर्तमानाद् वसतेर्धातोास्तन्यपवादोऽद्यतनी विभक्तिः स्यात् अन्त्ययामास्वप्तरि-स चेदों यस्यां रात्रौ भूतस्तस्या एवात्ययामं व्याप्यास्वप्तरि कर्तरि वर्तते / अद्य तेनैवान्त्ययामेनावच्छिन्नेऽद्यतने चेत्प्रयोगो भवति नाद्यतनान्तरे / न्याय्ये प्रत्युत्थाने प्रत्युत्थितं कंचित् कश्चिदाह-क भवानुषितः / स आह-अमुत्रावात्समिति / राज्यन्त्ययामे तु मुहूर्तमपि स्वापे ह्यस्तन्येव / अमुत्रावसमिति / 611 ख्याते दृश्ये // 5 / 2 / 8 // ख्याते लोकविज्ञाते दृश्ये प्रयोक्तुः शक्यदशने भूतेऽनद्यतनेऽर्थे वर्तमानाद्धातोयस्तनी स्यात् / परोक्षापवादः / अरुणत् सिद्धराजोऽवन्तीम् / अजयत् सिद्धः सौराष्ट्रान् / ख्यात इति किम् / चकार कटं चैत्रः। दृश्य इति किम् / जघान कसं किल वासुदेवः। अनद्यतन इत्येव / उदगादद्यादित्यः। 612 अयदि स्मृत्यर्थे भविष्यन्ती // 5 / 2 / 9 // स्मृत्यर्थे धातावुपपदे सति भूतानद्यतनेऽर्थे वर्तमानाद्धातोभविष्यन्ती स्यात् अयदि-न चेद् यच्छब्दः 1 तेन 'अयदि ' इति सूत्रे वय॑न्तीविषये ह्यस्तनी न /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy