SearchBrowseAboutContactDonate
Page Preview
Page 655
Loading...
Download File
Download File
Page Text
________________ 642 सिद्धहैमबृहत्मक्रिया. [आख्यातप्रकरणे 604 करणक्रियया क्वचित् / / 3 / 4 / 94 // एकधातौ पूर्वदृष्टया करणस्थया क्रियया एकाकर्मक्रिये कर्तरि बिक्यात्मनेपदानि कचित् स्युः / परिवारयन्ति कण्टकैः पुरुषा वृक्षम् / परिवारयन्ते कण्टका वृक्षं स्वयमेव / कचिन्न / साध्वसिश्छिनत्ति / __605 सृजः श्राद्धे विक्यात्मने तथा // 3 / 484 // सृजो धातोः श्रद्धावति कर्तरि बिक्यात्मनेपदानि स्युस्तथा यथा विहितानि। असजि मालां धार्मिकः। मृज्यते मालां धार्मिकः / स्रक्ष्यते मालां धार्मिकः / श्राद्ध इति किम् / व्यत्यसृष्ट माले मिथुनम् / सृजति स्रक्ष्यति मालां मालिकः। तथेति वचनादद्यतन्यामात्मनेपदे ते बिच् तलुक् च शिति च क्य इति सिद्धम् / 606 तपेस्तपःकर्मकात् // 3 // 4 // 86 // तपेर्धातोरर्थान्तरवृत्तित्वेन तपःकमकात कर्तरि बिक्यात्मनेपदानि स्युस्तथा / तप्यते तपः साधुः। तेपे तपांसि साधुः। तपिरत्र करोत्यर्थः। बिच् तु तपःकत्रनुतापे चेति प्रतिषेधान्न / अन्वतप्त तपः साधुः। तपेरिति किम् / कुरुते तपांसि साधुः। तप इति किम् / उत्तपति सुवर्ण सुवर्णकारः। कर्मेति किम् / तपांसि साधु तपन्ति / दुःखयन्तीत्यर्थः / 607 कुषिरजेप्प्ये वा परस्मै च // 3 / 4 / 74 // कुषिरञ्जिभ्यां व्याप्ये कर्तरि शिद्विषये परस्मैपदं वा स्यात् तत्संनियोगे श्यश्च / क्यात्मनेपदापवादौ / कुष्णाति पादं देवदत्तः। कुष्यति कुष्यते पादः स्वयमेव / कुष्यन् कुष्यमाणः पादः स्वयमेव / रज्यति रज्यते वस्त्रं स्वयमेव / रज्यद् रज्यमानं वस्त्रं स्वयमेव / व्याप्ये कर्तरीति किम् / कुष्णाति पादं रोगः / रज्यति वस्त्रं शिल्पी। शितीत्येव / अकोषि / चुकुषे / कोषिष्यमाणः। अरञ्जि / ररर्छ / रक्ष्यमाणं स्वयमेव / परस्मैपदसंनियोगविज्ञानादिह न / कतीह कुष्णानाः पादाः। कतीह रजमानानि वस्त्राणि / 'वयःशक्तिशीले ' इति शानः। क्यात्परस्मैपदविकल्पविधानेनैव सिद्धे श्यविधानं कुष्यन्ती रज्यन्तीत्यत्र 'श्यशवः' इत्यनेन नित्यमन्तादेशार्थम् / // इति कर्मकर्तृप्रक्रिया // // अथ विभक्त्यर्थप्रक्रिया // 608 श्रुसवस्भ्यः परोक्षा वा // 5 // 2 // 1 // भूत इति अनुवर्तते। णोत्यादिभ्यो धातुभ्यो भूतार्थवृत्तिभ्यः परोक्षा विभक्तिर्वा स्यात् / उपशुश्राव / उपससाद /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy