________________ कर्मकर्तृप्रक्रिया ] सिद्धहैमबृहत्मक्रिया. कन्यां छात्रः, अममण्डत मण्डयिष्यते मण्डयते कन्या स्वयमेव / भूपिमण्डयोर्ण्यन्तत्वेनैव निषेधे सिद्धे जिट्मतिषेधार्थ भूषार्थेषूदाहरणम् / सन्नन्त-अचिकीर्षीत् कटं चैत्रः / अचिकीर्षिष्ट चिकीर्षिष्यते चिकीर्षते कटः स्वयमेव / अबिभित्सीत् कुशूलं चैत्रः / अविभित्सिष्ट विभित्सिष्यते बिभित्सते कुशूलः स्वयमेव / किरादिअकारीत् पांसुं करी, अकोष्ट कीर्णीष्ट किरते पांसुः स्वयमेव / एवमवाकीष्ट / अवकीर्पोष्ट अवकिरते पांसुः स्वयमेव / अगारीत ग्रासं चैत्रः। अगीष्ट गीर्षीष्ट गिरते ग्रासः स्वयमेव / एवं न्यगीष्ट निगीषर्षीष्ट निगिरते ग्रासः स्वयमेव / दोन्धि गां पयो गोपः। दुग्धे गौः स्वयमेव / दुग्धे गौः पयः स्वयमेव / कथमदोहि गौः स्ययमेव ? दुहेबिज्विकल्प उक्तः। अवोचत् कथां चैत्रः / अचोचत ब्रूते कथा स्वयमेव / अश्रन्थीत् मालां मालिकः। अश्रन्थिष्ट श्रथ्नीते श्रन्थते माला स्वयमेव / अग्रन्थीत् ग्रन्थं विद्वान् / अग्रन्थिष्ट ग्रथ्नीते ग्रन्थते ग्रन्थः स्वयमेव / श्रन्थिग्रन्थी ज्यादौ युजादौ वा। अनंसीत दण्डं दण्डी। अनंस्त नमते दण्डः स्वयमेव / परिणमति मृदं कुलालः। परिणमते मृत् स्वयमेव / कृ गृ दुह ब्रू श्रन्थ ग्रन्थ् नम् इति किरादयः। बहुवचनं शिष्टप्रयोगानुसरणार्थम् / णिस्नुश्यात्मनेपदाकर्मकाणां बिपतिषेधः पूर्वसूत्रे उदाहृतः। बिट त्वेषां पृथग्योगाद् भवत्येवेति चोक्तम् / क्यनिषेध उदाहियते। ण्यन्त-कारयते कटः स्वयमेव / चोरयते गौः स्वयमेव / उत्पुच्छयते गौः स्वयमेव / स्नु-प्रस्नुते गौः स्वयमेव / त्रि-उच्छ्यते दण्डः स्वयमेव / आत्मनेपदाकर्मकविकुर्वते सैन्धवाः स्वयमेव / आहते गौः स्वयमेव / अन्ये तु णिस्नुश्यात्मनेपदाकमकेभ्यो बिटोऽपि प्रतिषेधमिच्छन्ति / तन्मते पाचयिता पाचयिष्यते ओदनः, प्रस्नोता प्रस्नोष्यते गौः, उच्चयिता उच्छ्रयिष्यते दण्डः, आहन्ता आहनिष्यते गौः स्वयमेवेत्येव भवति / स्नुनमोः अन्तभूतण्यर्थत्वेन सकर्मकखाद् गवादेः कर्मकर्तृतम् / यत्र तु ण्यों नास्ति तत्र कतैव / यथा प्रस्नौति गौर्दोग्धुः कौशलेन / नमति पल्लवो वातेन / ननु कर्मस्थया क्रियया एकाकर्मक्रिये कर्तरि जिक्यात्मनेपदानि भवन्ति अत्र तु ण्यन्तानां प्रयोजकव्यापारः सन्नन्तानां चेच्छाकर्तृस्थैव क्रियेति बिक्ययोः प्राप्तिरेव नास्ति किं प्रतिषेधेन ? उच्यते-प्रयोजकव्यापारस्येच्छायाश्च तदर्थखात् करणादिक्रियारूपस्य प्रकृत्यर्थस्य प्राधान्यम् , तस्य च कर्मस्थत्वात् णिसबन्तानामपि कर्मस्थक्रियत्वम् / तथा ब्रूते कथेत्यत्र वचनं शब्दप्रकाशनफलत्वात् उपाध्यायेनोक्तः करोतीतिवत् प्रेरणार्थत्वात् वा कर्मस्थक्रियारूपम् / भूषाक्रियाणां च भूषाफलं शोभाख्यं कर्मणि दृश्यत इति कर्मस्थक्रियत्वम् / एवमन्यत्रापि भावनीयम् / 81