SearchBrowseAboutContactDonate
Page Preview
Page 653
Loading...
Download File
Download File
Page Text
________________ सिद्धहैमबृहत्मक्रिया. आख्यातप्रकरणे 601 णिस्नुयात्मनेपदाकर्मकात् // 3 / 4 / 92 // ण्यन्ताद्धातोः स्नुश्रिभ्यां चात्मनेपदविधावकर्मकेभ्यश्च कर्मकर्तरि बिच न स्यात् / येभ्यः कर्मण्यसति आत्मनेपदं विधीयते ते आत्मनेपद्यकर्मकाः / णि-पचति ओदनं चैत्रः तं मैत्रः पायुक्त अपीपचत् ओदनं चैत्रेण मैत्रः / पुनरोदनस्य सुझरत्वेन कर्तृत्वे अपीपचतौदनः स्वयमेव / यदि वा स्वयमेव पच्यमानः ओदनः स्वं मायुक्त अपीपचतौदनः स्वयमेव। उभयत्र स्वयमेवापाचीत्येवार्थः / अचूचुरत् गां चैत्रः, अचूचुरत गौः स्वयमेव / पुच्छमुत्क्षिपति उत्पुच्छयते गौः / अन्तर्भूतण्यर्थत्वात् सकर्मकत्वे उदपुपुच्छ। गां देवदत्तः / उदपुपुच्छत गौः स्वयमेव / यद्वा उत्पुच्छामकार्षीदिति णिचि उदपुपुच्छद् गां देवदत्तः / उदपुपुच्छत गौः स्वयमेव / स्नु-प्रास्नावीत् गां देवदत्तः। प्रास्नोष्ट गौः स्वयमेव / 602 स्नोः॥४४॥ स्नोः परस्य स्तायशित आदिरिट् स्यात् आत्मनेपदं चेन्न / प्रस्नविष्यति / प्रस्नविता / अनात्मन इत्येव / प्रस्नोष्यते / प्रास्नोष्ट / प्रस्नवितेवाचरति प्रस्नवित्रीयत इत्यत्र बात्मनेपदस्य बहिरङ्गत्वात् तदाश्रयः प्रतिषेधो न / स्नौतेरिट सिद्ध एव, प्रतिषेधाभावादात्मनेपद इडनिवृत्यर्थे तु वचनम् / श्रि-उदशिश्रियत् दण्डं दण्डी। उदशिश्रियत दण्डः स्वयमेव। आत्मनेपदाकर्मक-व्यकार्षीत् सैन्धवं चैत्रः / वल्गयति स्मेत्यर्थः / व्यकृत सैन्धवः स्वयमेव / विकरोतिर्वल्गनेऽन्तर्भूतण्यर्थः कर्मस्थक्रियः। व्यकार्षीत् कटं चैत्रः व्यकृत कटः स्वयमेव / अवधीत् गां गोपः / आहत गौः स्वयमेव / व्यताप्सीत् पृथिवीं रविः / व्यतप्त पृथिवी स्वयमेव / बिनिषेधात् बिट् भवत्येव / पाचिता पाचिषीष्ट ओदनः स्वयमेव / प्रास्नाविष्ट प्रस्नाविषीष्ट गौः स्वयमेव / उच्छ्रायिता उच्छायिषीष्ट दण्डः स्वयमेव / आघानिष्ट आधानिषीष्ट गौः स्वयमेव / पृथग्योगात् उत्तरेण जिटः प्रतिषेधो न / 603 भूषार्थसकिरादिभ्यश्च विक्यौ // 3 / 4 / 93 // भूषार्थेभ्यः सन्नन्तेभ्यः किरादिभ्यश्चकाराणिस्नुथ्यात्मनेपदाकर्मकेभ्यश्च धातुभ्यः कर्मकर्तरि जिक्यौ न स्याताम् / निरुत्सृष्टानुबन्धो बिच्चिटोहणार्थः / भूषार्थ-अलमकार्षीत् कन्या चैत्रः। अलमकृत कन्या स्वयमेव / एवमलंकरिष्यते अलंकुरुते कन्या स्वयमेव। पर्यस्कार्षीत् कन्यां चैत्रः, पर्यस्कृत, परिष्करिष्यते परिष्कुरुते कन्या स्वयमेव / अबूभुषत् कन्यां छात्रः / अबूभुषत भूषयिष्यते भूषयते कन्या स्वयमेव / अममण्डत्
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy