________________ कर्मकर्तृप्रक्रिया ] सिद्धहैमबृहत्पक्रिया. 639 एकस्य कर्मत्वं कर्तृत्वं च कथमिति चेत् उच्यते / सर्वमपि कर्म स्वव्यापारे स्वातत्र्यमनुभूय कर्तृव्यापारेण न्यकृतं सत् कर्मतामनुभवति / कर्तृव्यापाराविवक्षायां तु स्वव्यापारे स्वातन्त्र्यात् कर्तृत्वमस्याव्यावृत्तमेव / यदाहु: " निर्वृत्त्यादिषु तत्पूर्वमनुभूय स्वतन्त्रताम् // कन्तराणां व्यापारे कर्म संपद्यते ततः // 1 // निवृत्तभेषणं चैतत् स्वक्रियावयवे स्थितम् // निवर्तमाने कर्मत्वे स्वे कर्तृत्वेऽवतिष्ठते " // इति // . 597 पचिदुहेः // 3 / 4 / 87 // पचिदुहिभ्यामेकधातौ कर्मस्थक्रियया पूर्वदृष्टयाऽकर्मिकया सकर्मिकया वा एकक्रिये कर्तरि कर्मकर्तृरूपे जिक्यात्मनेपदानि स्युः अपवादविषयं मुक्त्वा / अपाच्योदनः स्वयमेव / पच्यते ओदनः स्वयमेव / पक्ष्यते ओदनः स्वयमेव / अदोहि गौः स्वयमेव / दुग्धे गौः स्वयमेव / अदुग्ध गौः स्वयमेव / उदुम्बरं फलं पचति वायुः / उदुम्बरः फलं पच्यते स्वयमेव / अपतोदुम्बरः फलं स्वयमेव / गां दोन्धि पयो गोपालकः / दुग्धे गौः पयः स्वयमेव / अदुग्ध गौः पयः स्वयमेव / अधुक्षत गौः पयः स्वयमेव / दुहिपच्योः कर्मणि विचः प्रतिषेधं वक्ष्यति / तथा अविशेषेण दुहेर्निचो विकल्पं क्यस्य च प्रतिषेधं वक्ष्यति / अकर्मकस्येह पूर्वेणैव सिद्धे सकर्मकार्थ वचनम्। . 598 न कर्मणा निच् // 3 / 4 / 88 // पचिदुहेः कर्मणा योगेऽनन्तरोक्ते कर्तरि बिच् न स्यात् / अपक्तोदुम्बरः फलं स्वयमेव / अदुग्ध गौः पयः स्वयमेव / कर्मणेति किम् / अपाच्योदनः स्वयमेव / अदोहि गौः स्वयमेव / अनन्तरोक्ते कर्तरीत्येव / अपाचि उदुम्बरः फलं वायुना / अदोहि गौः पयो गोपालकेन / 599 रुधः // 3 / 4 / 89 // रुधो धातोरनन्तरोक्ते कर्तरि बिच् न स्यात् / अरुद्ध गौः स्वयमेव / अनन्तरोक्ते कर्तरीत्येव / अरोधि गोर्गोपालकेन / 600 स्वरदुहो वा // 31490 // स्वरान्ताद्धातोर्दुहेश्वानन्तरोक्ते कर्तरि बिच् वा न स्यात् / अकृत अकारि कट; स्वयमेव / अलविष्ट अलावि केदारः स्वयमेव / अदुग्ध अदोहि गौः स्वयमेव / स्वरदुह इति किम् / अभेदि कुशूल: स्वयमेव / अनन्तरोक्ते कर्तरीत्येव / अकारि कटश्चैत्रेण / अदोहि गौर्बल्लवेन /