SearchBrowseAboutContactDonate
Page Preview
Page 651
Loading...
Download File
Download File
Page Text
________________ सिद्धहैमबृहत्प्रक्रिया. [आख्यातप्रकरणे 595 न स्सः // 2 / 3 / 59 // कृतद्विर्भावसकारसंवन्धिनः सकारस्य षो न स्यात् / सुपिस्स्यते / सुतुस्स्यते / अत्र सुपूर्वस्य पिसेस्तुसेश्च सकारस्य क्ये अदी_दित्यादिना द्विर्भावः / ननु दधिस्यते, मधुस्यति, समविस्करन् , अग्निसाकरोति इत्यादिषु प्रतिषेधाभावात् पत्वं प्रामोति / उच्यते / स्सस्सडागमयोः स्सात्प्रत्ययस्य च द्विः सकारपाठस्य पखप्रतिषेधार्थत्वेनोच्यमानखात् षत्वं न / // इति भावकर्मप्रक्रिया // // अथ कर्मकर्तृप्रक्रिया // यदा सौकर्यातिशयं द्योतयितुं कर्तृव्यापारो न विवक्ष्यते तदा कारकान्तराण्यपि कर्तृसंज्ञां लभन्ते, स्वव्यापारे स्वतन्त्रतात् / तेन पूर्व करणादिसत्त्वेऽपि संप्रति कर्तृवात् कर्तरि विभक्तिः / साध्वसिछिनत्ति / स्थाली पचति / कर्मणस्तु कर्तृवविवक्षायां प्राक् सकर्मका अपि प्रायेणाकर्मका भवन्ति / तेभ्यो भावे कर्तरि च प्रत्ययः / पच्यते ओदनेन / भिद्यते काष्ठेन / कर्तरि तु / / 596 एकधातौ कक्रिययकाकर्मक्रिये // 3 / 486 // एकस्मिन् धातौ कर्मस्थक्रियया पूर्वदृष्टया एका अभिन्ना संपत्यकर्मिका क्रिया यस्य तस्मिन् कर्तरि कर्मकर्तरूपे धातोर्जिक्यात्मनेपदानि तथा स्युः। अकारि कटः स्वयमेव / क्रियते कटः स्वयमेव / क्रियमाणः कटः स्वयमेव / चक्रे कटः स्वयमेव / अभेदि कुशूल: स्वयमेव / भिद्यते कुशूलः स्वयमेव / बिभिदे कुशूलः स्वयमेव / अत्र करोति कटम् , भिनत्ति कुशूलमित्यादौ यैव कटादिकर्मणां निर्दृत्तिद्विधाभवनादिका क्रिया सैव सौकर्यादविवक्षिते कर्तृव्यापारे स्वातन्त्र्यविवक्षायां तस्मिन्नेव धातावकर्मिका च। एवं चाकर्मवाद् भावेऽप्यात्मनेपदम् / क्रियते कटेन / भिद्यते कुशूलेन / एकधाताविति किम् / पचत्योदनं चैत्रः / सिद्धयत्योदनः स्वयमेव / कर्मक्रिययेति किम् / साध्वसिछिनत्ति, साधु स्थाली पचति इति करणाधिकरणक्रिययैकक्रिये मा भूत् / एकक्रिययेति किम् / स्रवत्युदकं कुण्डिका / स्रवत्युदकं कुण्डिकायाः। अत्र विसृजति निष्क्रामतीति क्रियाभेदात् / गलन्त्युदकं वलीकानि / गलत्युदकं वलीकेभ्य इति / अत्रापि मुश्चतीति पततीति क्रियाभेदात् नैकक्रियत्वम् / अकर्मक्रिय इति किम् / भिद्यमानः कुशूल: पात्राणि भिनत्ति / अन्योन्यमाश्लिष्यतः / हन्त्यात्मानमात्मा /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy