________________ भावकर्मप्रक्रिया ] सिद्धहैमबृहत्मक्रिया. 637 ष्यते। द्रक्ष्यते। 'नो व्यञ्जने' इति नस्य लुकि-स्रस्यते / उदिखान्नात्र नलुक्-नन्द्यते। कृति इज्यते। घट्यते। घटादेईखो दीर्घस्तु वा त्रिणम्परे / अघाटि / अघटि / अधाटिपाताम् / अघटिपाताम् / अघटयिषाताम् / शमोऽदर्शने / अशामि / अशामिषाताम् / अशमिषाताम् / यङन्तात् णो अशंशामि / अशंशमि / अशंशामिषाताम् / अशंशमिषाताम् / यङ्लुबन्तादप्येवम् / ण्यन्तखाभावे तु शम्यते मुनिना / 590 मोऽकमियमिरमिनमिगमिवमाचमः // 4 // 3 // 55 // मान्तस्य धातोः कम्यादिवर्जितस्य णिति कृत्प्रत्यये औ च परे दृद्धिर्न स्यात् / अशमि / अतमि / अदमि / म इति किम् / अपाठि / कम्यादिवर्जनं किम् / अकामि / अयामि / अरामि / अनामि / अगामि / अवामि / आचामि / वध हिंसायाम् / व्यञ्जनान्तः / न जनवधेति न वृद्धिः / अवधि / 591 विश्रमेर्वा // 43 // 56 // विपूर्वस्य अमेणिति कृत्मत्यये औ च परे वा वृद्धिर्न स्यात् / व्यश्रामि / व्यश्रमि / वीति किम् / अश्रमि / अन्ये तु विश्रमेवैद्धिं नेच्छन्त्येव / अपरे तु नित्यमेव वृद्धिमुपयन्ति / एके तु घब्येव विकल्पमातिष्ठन्ते / जागुर्जिणवीति वृद्धौ अजागारि / 592 भञ्जनौं वा // 4 / 2 / 48 // भब्जेरुपान्त्यनकारस्य औ परे लुग्वा स्यात् / अभाजि / अभञ्जि / 593 त्रिख्णमोर्वा // 4 / 4 / 107 // औ ख्णमि च प्रत्यये परे लभतेः स्वरात् परो नोऽन्तो वा स्यात् / अलाभि / अलम्भि / ... 594 उपसर्गात् खल्घनोश्च // 4 / 4 / 108 // उपसर्गात् परस्य लभेः स्वरात् परः खल्घोत्रिख्णमोश्च परयोऽन्तः स्यात् / प्रालम्भि / उपसर्गादिति किम् / ईपल्लभः / विख्णमोनित्यार्थमुपसर्गादेव खल्धोरिति नियमार्थ वचनम् / द्विकर्मकाणां तु " गौणं कर्म दुहादीनां प्रत्ययो वक्ति कर्मजः / ___न्यादीनां कर्मणो मुख्यस्योक्तत्वे प्रत्यया यथा"!! गत्यकर्मकाणां णिगन्तानां मुख्यकर्मणि / बोधाहारार्थशब्दकर्मकाणां तु ण्यन्तानामुभयत्र /