________________ // सिद्धहैमबृहत्मक्रिया. [आख्यातपकरणे प्रत्यये औ च परे ऐकारः स्यात् / अदायि / अधायि। अदायिषाताम् / अदिषाताम् / अधायिषाताम् / अधिपाताम् / ददे / दधे / दायिषीष्ट / दासीष्ट / धायिषीष्ट / धासीष्ट / दायिता। दाता। धायिता। धाता / दायिष्यते / दास्यते / धायिष्यते। धास्यते। शीङ्–शय्यते। अशायि। कृ-क्रियते। अकारि / अकारिषाताम् / अकृषाताम् / चक्रे / कारिषीष्ट / कृषीष्ट / कारिता / कर्ता / कारिष्यते / करिष्यते / अकारिष्यत / अकरिष्यत / गृ-गीर्यते / अद्यतन्यां ध्वमि सिज्लोपपक्षे चतुरधिकं शतम् / तथाहि-निटि न दीर्घः अगारिध्वम् / इटि तु वृतो. नवेति वा दीर्घः-अगरीध्वम्, अगरिध्वम् / एषां त्रयाणां लत्वं ढत्वं द्वित्वत्रयं चेति पञ्चबैकल्पिकानि इति षण्णवतिः / इट् सिजाशिषोरात्मने इति विकल्पादिडभावे ऋवर्णादिति कित्वम् / ऋतां ङ्कितीर , भ्वादेर्नामिन इति दीर्घ म्यन्तात्परोक्षेति ढत्वे अगीईम् / ढवमानां द्वित्वविकल्पे अष्टौ। उक्तषण्णवत्या सह संकलने उक्ता संख्या सिद्धा। " इड् दीर्घश्च बिट लत्वं ढत्वं द्वित्वत्रयं तथा // अष्टानामिति वैकल्प्ये शतं वेदाधिकं मतम्"। सिल्लोपाभावे तु ढत्वविकल्पाभावात् षट्पञ्चाशत् / 588 तनः क्ये // 4 / 2 / 63 // तनोतेरन्तस्य क्ये परे आकारो वा स्यात् / तायते / तन्यते / क्य इति किम् / तन्तन्यते / ये न वा / जायते / जन्यते / सायते / सन्यते / खायते खन्यते / 689 तपः कनुतापे च // 3 / 4 / 91 // तपेर्धातोः कर्मकर्तरि कर्तरि अनुतापे चार्थे बिच न स्यात् / अनुतापग्रहणाद् भावे कर्मणि च / अन्ववातप्त कितवः स्वयमेव / कर्तरि-अतप्त तपांसि साधुः। अन्वतप्त चैत्रेण / अन्ववातप्त पापः पापेन कर्मणा / कत्रनुतापे चेति किम् / अतापि पृथिवी राज्ञा / हन्यते / घन् / अघानि / अघानिषाताम् / अहसाताम् / पक्षे वधादेशे अवधि / अवधिषाताम् / घानिषीष्ट / वधिषीष्ट / घानिष्यते / हनिष्यते / गृह्यते / अग्राहि / अग्राहिपाताम् / अग्रहीषाताम् / अग्राहिध्वम् / अग्राहिदम् / अग्रहीध्वम् / अग्रहीद्वम् / जगृहे / ग्राहिषीष्ट / ग्राहिषीट्वम् / ग्रहीषीदम् / ग्राहिता / ग्रहीता / दृश्यते / अदर्शि / अदर्शिषाताम् / अक्षाताम् / ददृशे / दर्शिषीष्ट / क्षीष्ट / दर्शिता / द्रष्टा / दर्शि