________________ 635 भावकर्मप्रक्रिया] सिद्धहेमबृहत्मक्रिया. // अथ भावकर्मप्रक्रिया // अथ भावकर्मरूपसाधनम् / तत्र तत्साप्यादित्यादिनाऽऽत्मनेपदम् / 584 क्यः शिति // 3 / 470 // सर्वस्माद्धातो वकर्मविहिते शिति क्यः प्रत्ययः स्यात् / भावो भावना उत्पादना क्रिया / सा च धातुत्वेन सर्वधातुवाच्या भावार्थप्रत्ययेनानूद्यते / युष्मदस्मद्भ्यां सामानाधिकरण्याभावादन्यदर्थ एव / विभक्तिवाच्याया भावनाया अद्रव्यरूपत्वेन द्वित्वाद्यप्रतीतेन द्विवचनादि किंतु एकवचनमेव / तस्यौत्सर्गित्वेन संख्यानपेक्षत्वात् / अनुक्तत्वात् कर्तरि तृतीया / त्वया मया अन्यैश्च भूयते / अभूयत / अद्यतन्याम् / 585 भावकर्मणोः // 3 / 4 / 68 // सर्वस्माद्धातोः भावकर्मविहितेऽद्यतन्यास्ते बिच् प्रत्ययः स्यात् तलुक् च / अभावि / बभूवे / 586 स्वरग्रहदृशहन्भ्यः स्यसिजाशीःश्वस्तन्यां मिट् वा // 3 / 4 / 69 / / स्वरान्ताद् धातो; ग्रहादिभ्यश्च विहितासु भावकर्मविहितासु स्यसिजाशीःश्वस्तनीषु बिट प्रत्ययो वा स्यात् / भाविषीष्ट / भविषीष्ट / भाविता / भविता / भाविष्यते। भविष्यते / अभाविष्यत / अभविष्यत / अनुपूर्वत्वे सकर्मकस्य भूधातोः-अनुभूयते सुख स्वामिना। अनुभूयसे त्वं मया। अनुभूयेऽहं जनैः। अन्वभावि भवो भवता। अन्वभाविषाताम् / अन्वभविषाताम् / ण्यन्तत्वे-भाव्यते / णेलकि अभाविषाताम् / अभावयिषाताम् / भावयाञ्चक्रे / भावयाम्बभूवे / भाविषीष्ट / भावयिषीष्ट / भाविता। भावयिता / भाविष्यते / भावयिष्यते / सन्नन्तत्वे तु बुभूष्यते। बुभूषाश्चक्रे / बुभूषिता। यङन्ते-बोभूय्यते। बोभूयाश्चक्रे / बोभूयिषीष्ट / बोभूयिष्यते / यङ्लुपि-बोभूयते / अबोभावि / बोभवाश्चक्रे / बोभाविता / बोभविता / स्तूयतेऽर्हन् / अस्तावि / अस्ताविषाताम् / अस्तोषाताम् / तुष्टुवे / स्ताविता / स्तोता / स्ताविष्यते / स्तोष्यते / क्यङगशीर्ये इति गुणे / अर्यते / स्मयते / आरिषाताम् / अस्मारिषाताम् / आरिता / स्मारिता / अर्ता / स्मर्ता / औपदेशिकसंयोगग्रहणात् 'क्यङाशीर्ये' इति न गुणः / संस्क्रियते / ईयञ्जनेऽयपीति ईत्वे गीयते / पीयते। स्थीयते / सीयते / दीयते / धीयते / 587 आत ऐः कृनौ // 4 // 353 // आकारान्तस्य धातोणिति कृति