________________ 634 सिद्धहैमबृहत्मक्रिया. [आख्यातप्रकरणे 580 व्याङ्परे रमः // 3 / 3 / 105 // व्यापरिभ्यः पराद् रमेः कर्तरि परस्मैपदं स्यात् / विरमति / आरमति / परिरमति / इदित्वात् आत्मनेपदस्यापवादः। 581 वोपात् // 3 // 3 / 106 // उपपूर्वाद्रमेः कर्तरि परस्मैपदं वा स्यात् / भार्यामुपरमति, उपरमते वा। उपसंप्राप्तिपूर्विकायां रतौ वर्तमानोऽन्तर्भूतणिगों वा रमिः सकर्मकः / उपरमति उपरमते वा संतापः। उपरमति उपरमते वावद्यात् / उपाद्रमेः सकर्मकात् परस्मैपदमेवेत्येके / आत्मनेपदमेवेत्यन्ये / 582 अणिगि प्राणिकर्तृकानाप्याण्णिगः।।३।३।१०७॥ अणिगवस्थायां यः माणिकर्तृकोऽकर्मकश्च धातुस्तस्माण्णिगन्तात् कर्तरि परस्मैपदं स्यात् / आस्ते चैत्र आसयति चैत्रम् / शेते मैत्रः शाययति मैत्रम् / अणिगीति किम् / स्वयमेवारोहयमाणं हस्तिनं प्रयुङ्क्ते आरोहयते / अणिगिति गकारः किम् / णिजवस्थायां प्राणिकतुकानाप्यात् णिगन्ताद्यथा स्यात् / चेतयमानं प्रयुक्त चेतयतीति / प्राणिकर्तृकेति किम् / शुष्यन्ति व्रीहयः शोषयते ब्रीहीनातपः / प्राण्यौषधिक्षेभ्य इति पृथनिर्देशादिह लोके प्रतीता एव प्राणिनो गृह्यन्ते / अनाप्यादिति हि कटं कुर्वाणं प्रयुङ्क्ते कटं कारयते / णिग इति किम् / आस्ते / शेते / गकारः किम् / अणिगवस्थायां माणिकर्तृकानाप्याण्णिजन्तान्मा भूत् / चेतयते / ईगित इत्यात्मनेपदस्यापवादोऽयम् / 583 चल्याहारार्थे धयुधमुट्ठस्रुनशजनः // // 3 / 108 // चलिरथः कम्पनम् / तदर्थेभ्यः आहारार्थेभ्य इङादिभ्यश्च णिगन्तेभ्यः कर्तरि परस्मैपदं स्यात् / चल्यर्थ-चलयति कम्पयति चोपयति शाखाम् / आहारार्थ-निगारयति भोजयति आशयति चैत्रमन्नम् / पय उपयोजयते चैत्रेणेति युजेरनाहारार्थत्वान्न भवति / इङ्सूत्रमध्यापयति शिष्यम् / बुध्-बोधयति पमं रविः / बोधयति धर्म शिष्यम् / युध्योधयति काष्ठानि / घु-भावयति राज्यं प्रापयतीत्यर्थः / द्रु-द्रावयत्ययः / विलाययतीत्यर्थः / घु-स्रावयति तैलम् / स्पन्दयतीत्यर्थः / नश्-नाशयति पापम् / जन्जनयति पुण्यम् / घुमुदणामचलनार्थार्थ शेषाणां सकर्मकार्थममाणिकर्तृकार्थ च वचनम् / // इति परस्मैपदप्रक्रिया //