SearchBrowseAboutContactDonate
Page Preview
Page 644
Loading...
Download File
Download File
Page Text
________________ आत्मनेपदप्रक्रिया] सिद्धहैमबृहत्पक्रिया.. 631 " न्यग्भावना न्यग्भवनं रुही शुद्ध प्रतीयते / / न्यग्भावना न्यभवनं ण्यन्तेऽपि प्रतिपद्यते // 1 // अवस्थां पञ्चमीमाहुर्ण्यन्ते तां कर्मकर्तरि / निवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थे णिगुच्यते // 2 // 566 प्रलम्भे गृधिवः // 3 / 3 / 89 // गृधिवञ्चिभ्यां णिगन्ताभ्यां पलम्भे वञ्चने वर्तमानाभ्यां कर्तर्यात्मनेपदं स्यात् / बटुं गर्धयते / बटुं वश्चयते / विप्रतारयतीत्यर्थः / प्रलम्भ इति किम् / श्वान गर्धयति / प्रलोभयतीत्यर्थः / अहिं वश्चयति। गमयतीत्यर्थः / णिग आत्मनेपदविधानं सर्वत्राफलवदर्थम् / 567 ला लिनोऽर्चाभिभवे चाचाकर्तर्यपि // 3 // 3 // 90 // लीयतिलिनातिभ्यां णिगन्ताभ्यामर्चाभिभवयोः प्रलम्भे चार्थे वर्तमानाभ्यां कर्तर्यात्मनेपदं स्यात् अनयोश्चान्तस्याकर्तर्यप्याकारः। जटाभिरालापयते / परैरात्मानं पूजयतीत्यर्थः / श्येनो वर्तिकामपलापयते / अभिभवतीत्यर्थः / कस्वामुल्लापयते वञ्चयते इत्यर्थः / एष्विति किम् / बालकमुल्लापयति / उत्क्षिपतीत्यर्थः। कथं तत्रात्वम् / लीङ्लिनोति भविष्यति / अकर्त/पीति किम् / जटाभिरालाप्यते जटिलेन / ङिच्छानिदेशो यौजादिकनिवृत्त्यर्थः। 568 स्मिङः प्रयोक्तुः स्वार्थे // 4 / 3 / 91 // प्रयोक्तुः सकाशाद्यः स्वार्थः स्मयस्तत्र वर्तमानाण्णिगन्तात् स्मयतेः कर्तर्यात्मनेपदं स्यात् अस्य चान्तस्याकारोऽकर्तर्यपि / जटिलो विस्मापयते / प्रयोक्तुः स्वार्थे इति किम् / करणान् स्वार्थे मा भूत् / रूपेण विस्माययति / अकर्तर्यपीत्येव / विस्मापनम् / किनिर्देशाद् यङ्लुपि न / सेष्माययति / 569 विभेतेभीषु च // 3 / 3 / 92 // प्रयोक्तुः सकाशात् स्वार्थे वर्तमानाण्यन्ताद् बिभेतेः कर्तर्यात्मनेपदं स्यादस्य च भीषादेशः / पक्षेऽन्तस्याकारश्चाकर्तयपि / मुण्डो भीषयते, भापयते / प्रयोक्तुः स्वार्थ इत्येव / कुश्चिकया भाययति / अकर्तर्यपीत्येव / भीषा। भापनम् / तिन्निर्देशाद् यङ्लपि न / मुण्डो बेभाययति / 570 मिथ्याकृगोऽभ्यासे // 3 / 3 / 93 // मिथ्याशब्दयुक्तो यः कृग् तस्माण्णिगन्तादभ्यासेऽर्थे वर्तमानात् कर्तर्यात्मनेपदं स्यात् / अभ्यासः पुनः पुनः
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy