________________ सिद्धहैमबृहत्मक्रिया. [आख्यातपकरणे णिगिति किम् / यस्याणिगन्तस्यैव कर्म कर्ता भवति ततो णिगन्तान्मा भूत् / लुनाति केदारं चैत्रः / लूयते केदारः स्वयमेव / तं प्रयुङ्क्ते लावयति केदारं चैत्रः / कर्तृग्रहणं किम् / आरोहन्ति हस्तिनं हस्तिपकाः / तानेनमारोहयति महामात्रः / णिग इति किम् / आरोहन्ति हस्तिनं हस्तिपकाः तानारोहयते हस्तीत्यणिगवस्थायां मा भूत् / प्रत्यासत्तेश्च यस्यैव धातोरणिगवस्था तस्यैव धातोडिंगवस्था गृह्यते न धावन्तरस्य / तेनेह न / आरुह्यमाणो हस्ती सेचयति पृष्ठं मूत्रेण / हस्तिपकैरारुह्यमाणो हस्ती स्थलमारोहयति मनुष्यान् इत्यत्र तु सदृशधातुप्रयोगेऽपि पूर्वो हस्तिपककर्तृको रुहिः परश्च मनुष्यकर्तृक इति साधनभेदात् क्रियाभेदे धातुभेदः / अस्मृताविति किम् / स्मरति वनगुल्म कोकिलः / स्मरयति एनं वनगुल्मः / कथं हन्त्यात्मानं घातयत्यात्मेति / अत्र ह्यात्मनोऽणिकर्मणो णिकर्तृसमस्तीति / नैवम् / द्वावात्मानौ शरीरात्मान्तरात्मा च / तत्र भेदेनैव लोके नित्यमयं प्रयोगः / हन्त्यात्मानमिति शरीरात्मनोऽन्तरात्मनो वा कर्मखम् / घातयत्यानमित्यपि तस्यैव कर्मत्वं न कर्तृखमिति / ननु यदि अणिकर्मणो णिकर्तृतायां णिगन्तादात्मनेपदमिष्यते तर्हि शुष्यन्न्यातपे व्रीहयः शोषयते व्रीहीनातप इत्यादावधिकरणादेः कर्तृतायामात्मनेपदं न पामोति / न / फलवत्कर्तरि भविष्यति / यद्येवमारोहयते हस्ती हस्तिपकानित्यादावपि तथैवास्तु / सत्यम् / किं तु फलवतः कर्मस्थक्रियाच्चान्यत्रायं विधिः / तथाहि-लावयते केदारः, भूषयते कन्या, कारयते कटः, गणयते गणः, आरोहयते हस्ती स्वयमेवेत्यादौ कर्मस्थक्रियत्वात् 'एकधातौ कर्मक्रिययकाकर्मक्रिये'त्यनेनैवात्मनेपदं भवति / नन्वारोहयते हस्ती स्वयमेवेत्यस्यास्कन्दयते इति किलार्थः। तत्कथं कर्मस्थक्रियता रुहेः ? उच्यते / यदा न्यग्भावनार्थोऽयं तदा कर्मस्थक्रियत्वम् / तथाहि-आरोहन्ति हस्तिनं हस्तिपका इति न्यग्भवनोपसर्जने न्यग्भावने रुहिर्वर्तते। स द्वितीयस्यामवस्थायाम् आरुह्यते हस्ती स्वयमेवेत्यस्यां कर्मकर्तृविषयो न्यग्भवनमात्रवृत्तिर्भवति / अथ चतुर्थ्याम् अन्तर्भूततृतीयायाम् आरुह्यमाणं प्रयुञ्जत इति हस्तिपकव्यापारप्रधानायां णिगन्तः सन्नारोहयन्ति हस्तिनं हस्तिपकाः इत्यस्यां शुद्धारोहतिवन्न्यग्भवनोपसर्जने न्यग्भावने वर्तते / पुनर्यदा अस्यैव प्रयोजकव्यापाराविवक्षा तदा आरोहयते हस्ती स्वयमेवेत्यस्यां पञ्चम्यामवस्थायाम् आरुह्यते हस्ती स्वयमेवेति वन्न्यग्भवनलक्षणस्य विशेषस्य हस्तिसमवेतत्वेनोपलम्भाल्लावयते केदार इत्यादाविव कर्मस्थक्रियत्वमस्त्येवेति न किंचिदनुपपन्नम् / यदुक्तम्