SearchBrowseAboutContactDonate
Page Preview
Page 642
Loading...
Download File
Download File
Page Text
________________ आत्मनेपदप्रक्रिया] सिद्धहैमबृहत्मक्रिया. 629 रज्जुम् / आहन्ति वृषलम् / स्व इति किम् / आयच्छति पादौ चैत्रस्य / आहन्ति शिरो मैत्रस्य ! अङ्ग इति किम् / स्वामायच्छति रज्जुम् / स्वं पुत्रमाहन्ति / स्वाङ्ग इति समस्तनिर्देशे पारिभाषिकस्वाङ्गप्रतिपत्तिः स्यादित्यसमस्ताभिधानम् / 562 हनः सिच् / / 4 / 3 / 38 // हन्तेः पर आत्मनेपदविषयः सिच कित् स्यात् / आहत / आहसाताम् / आहसत / 563 यम; सूचने // 4 // 3 // 39 // सूचनं परदोषाविष्करणम् / तत्र वर्तमानाद्यमेः पर आत्मनेपदविषयः सिच कित् स्यात् / उदायत / उदायसाताम् / उदायसत / सूचन इति किम् / आयस्त कूपाद्रज्जुम् / उद्धृतवानित्यर्थः। सकर्मकात् ‘समुदाङो यमेरग्रन्थे ' इत्यात्मनेपदम् / 564 व्युदस्तपः // 3 / 3 / 87 // व्युभ्यां परात्तपेः कर्मण्यसति स्वेऽङ्गे च कर्मणि कर्तर्यात्मनेपदं स्यात् / वितपते, उत्तपते रविः। दीप्यत इत्यर्थः। स्वेऽङ्गेवितपते, उत्तपते पाणिम् / तापयतीत्यर्थः / व्युद इति किम् / निष्टपति / स्वेऽङ्गे चेत्येव / वितपति पृथिवीं सविता / संतापयतीत्यर्थः। उत्तपति सुवर्ण सुवर्णकारः / द्रवीकरोतीत्यर्थः / स्व इत्येव / उत्तपति पृष्ठं चैत्रस्य / अङ्ग इत्येव / स्वं सुवर्णमुत्तपति / इह दीप्यते ज्वलति भासते रोचते इत्येष्वर्थेषु तमिमकर्मकं स्मरन्ति / यथा वहति भारमिति प्रापणे वहिं सकर्मकं स्पन्दने सकर्मकम् / वहति नदी स्पन्दते इत्यर्थः। 565 अणिक्कर्मणिकर्तृकाण्णिगोऽस्मृतौ // 3 / 3 / 88 // अणिगवस्थायां यत्कर्म तदेव णिगवस्थायां कर्ता यस्य सोऽणिकर्मणिकत कः / तस्माण्णिगन्तादातोरस्मृतौ वर्तमानात् कर्तर्यात्मनेपदं स्यात् / आरोहन्ति हस्तिनं हस्तिपकाः। आरोहयते हस्ती हस्तिपकान् / आस्कन्दयते इत्यर्थः / पश्यन्ति राजानं भृत्याः। दर्शयते राजा भृत्यान् भृत्यैरिति वा / पिबन्ति मधु पायकाः। पाययते मधु पायकान् / अणिगिति किम् / आरोहन्ति हस्तिनं हस्तिपकाः। आरोहयति हस्तिपकान् महामात्रः / आरोहयन्ति महामात्रेण हस्तिपकाः। प्रथमणिगन्तकर्मणि द्वितीयणिगन्तकर्तर्यपि मा भूत् / गित्करणं किम् / गणयति गणं गोपालकः / गणयते गणो गोपालम् इति णिजन्तकर्मणिकर्तृकादपि णिगन्तात् प्रतिषेधो मा भूत् / कर्मेति किम्। करणादेः कर्तृत्वे मा भूत् / पश्यन्ति भृत्याः प्रदीपेन / दर्शयति प्रदीपो भृत्यान् /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy