SearchBrowseAboutContactDonate
Page Preview
Page 641
Loading...
Download File
Download File
Page Text
________________ 628 सिद्धहैमबृहत्मक्रिया. [आख्यातपकरणे 556 उपात्स्थः // 3 / 3 / 83 // उपपूर्वात् तिष्ठतेः कर्मण्यसति कर्तर्यात्मनेपदं स्यात् / भोजनकाल उपतिष्ठते / योगे योग उपतिष्ठते / ज्ञानमस्य ज्ञेयेषूपतिष्ठते / संनिधीयते इत्यर्थः / कर्मण्यसतीत्येव / राजानमुपतिष्ठति / 557 समो गमृच्छिप्रच्छिश्रुवित्स्वरत्यर्तिदशः // 3 / 3 / 84 // समः परेभ्यो गमादिभ्यः कर्मण्यसति कर्तर्यात्मनेपदं स्यात् / संगच्छते / 858 गमो वा // 4 // 3 // 37 // गमेः परे आत्मनेपदविषये सिजाशिषौ किद्वद्वा स्याताम् / समगत, समगस्त चैत्रः / सङ्गसीष्ट, संगसीष्ट चैत्रः / समृच्छते / समच्छिष्यते / संपृच्छते / संशृणुते / नित्यपरस्मैपदिमिः साहचर्यात् ज्ञानार्थस्यैव विदेग्रहणम् / संवित्ते / संविदाते / 558 वेतनवा // 4 / 2 / 116 // वेत्तेः परस्यात्मनेपदसंबन्धिनोऽन्तो रत् इत्ययमादेशो वा स्यात् / संविद्रते / पक्षे संविदते / संविद्रताम् / संविदताम् / समविद्रत / समविदत / आत्मन इत्येव / विदन्ति / वेत्तरिति. किम् / रौधादिकस्य मा भूत् / विन्दन्ते / संस्वरते। अर्तीति सामान्यनिर्देशात् धादिरदादिश्च गृह्यते / समृच्छते / समियते / संपश्यते / स्वरत्योस्तिनिर्देशो यङ्लुनिवृत्यर्थः / कर्मण्यसतीत्येव / संगच्छति सुहृदम् / 560 वेः कृगः शब्दे चानाशे // 33 // 85 // विपूर्वात्करोतेरनाशेऽर्थे वर्तमानात् कर्मण्यसति शब्दे च कर्मणि कर्तर्यात्मनेपदं स्यात् / कर्मण्यसति-विकुर्वते सैन्धवाः / साधु दान्ताः शोभनं वल्गन्तीत्यर्थः। ओदनस्य पूर्णा छात्रा विकुर्वते / निष्फलं चेष्टन्त इत्यर्थः / शब्दे कर्मणि-क्रोष्टा विकुरुते स्वरान् / नानोत्पादयतीत्यर्थः / शब्दे चेति किम् / विकरोति मृदम् / अनाश इति किम् / विकरोत्यध्यायं विकरोति शब्दं विनाशयतीत्यर्थः / 561 आङो यमहनः स्वेऽङ्गे च // 3 // 3 // 86 // आङः पराभ्यां यमिहनिभ्यां कर्मण्यसति कर्तुः स्वेऽङ्गे च कर्मणि कर्तर्यात्मनेपदं स्यात् / आयच्छते / आहते / स्वेऽङ्गे-आयच्छते पादम् / आहते शिरः। स्वेऽङ्गे चेति किम् / आयच्छति ____ * समृच्छेति ऋच्छेरतेश्च रूपसाम्यात् ऋच्छेरभिव्यक्त्यर्थं समृच्छिष्यते इति द्वितीयमुदाहरणम् /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy