________________ आत्मनेपदमक्रिया ] सिद्धहमबृहत्मक्रिया. 627 553 विवादे वा / / 3 / 3 / 80 // विरुद्धार्थो वादो विवादः / व्यक्तवाचां सहोक्तौ विवादरूपायां वर्तमानाद् वदेः कर्तर्यात्मनेपदं वा स्यात् / विप्रवदन्ते विप्रवदन्ति वा मौहूर्ताः। परस्परप्रतिषेधेन युगपविरुद्धं वदन्तीत्यर्थः। विवाद इति किम् / संप्रवदन्ते वैयाकरणाः / सह वदन्तीत्यर्थः। व्यक्तवाचामित्येव / संप्रवदन्ति शकुनयः / नानारुतं कुवन्ति जातिशक्तिभेदात् / सहोक्तावित्येव / मौहूर्तो मौहूर्तेन सह क्रमेण विप्रवदति। विरुद्धाभिधानमात्रमिह विवक्षितं न तु विमतिपूर्वकम् / तेन विमतिलक्षणमप्यात्मनेपदं न / 554 अनोः कर्मण्यसति // 3 / 3 / 81 // व्यक्तवाचामित्येवानुवर्तते / व्यक्तवाचां संबन्धिन्यर्थे वर्तमानादनुपूर्वाद्वदेः कर्मण्यसति कर्तर्यात्मनेपदं स्यात् / अनुः सादृश्ये पश्चादर्थे वा / अनुवदते चैत्रो मैत्रस्य / यथा मैत्रो वदति तथा चैत्रो वदतीत्यर्थः / अनुवदते आचार्यस्य शिष्यः। आचार्येण पूर्वमुक्ते पश्चाद् वदतीत्यर्थः। कर्मण्यसतीति किम् / उक्तमनुवदति वीणा / कथं वाचिकपडिको न संवदेते। मिथो विरुध्येते इत्यर्थः ? विमतिविवक्षायां भविष्यति / अकर्मकादित्यनुक्त्वा कर्मण्यसतीति निर्देश उत्तरत्र शब्दे स्वेऽङ्गे च कर्मणीति लाघवेन प्रतिपत्त्यर्थः / 555 ज्ञः // 3 / 3 / 82 // जानातेः कर्मग्यसति कर्तर्यात्मनेपदं स्यात् / सर्पिषो जानीते / मधुनो जानीते / कथमत्र जानातिरकर्मकः ? उच्यते / नात्र सपिरादि ज्ञेयत्वेन विवक्षितं किं तर्हि प्रवृत्तौ कारणत्वेन / सर्पिषा मधुना वा करणेन भोक्तुं प्रवर्तत इत्यर्थः / अत एव अज्ञाने ज्ञः षष्ठीति षष्ठी / मिथ्याज्ञानार्थो वा जानातिः। सर्पिषि रक्तः प्रतिहतो वोदकादिषु सर्पिष्टया ज्ञानवान् भवतीत्यर्थः / मिथ्याज्ञानं चाज्ञानमित्यज्ञानार्थत्वे पूर्ववदेव षष्ठी। अथवा सर्पिःसंबन्धि ज्ञानं करोतीति विवक्षायां ज्ञानार्थोऽपि जानातिरकर्मकः तदा तु संबन्धे षष्ठी / कर्मण्यसतीत्येव / तैलं सर्पिषो जानाति / तैलं सर्पिष्टया जानातीत्यर्थः / स्वरेण पुत्रं जानाति / केचित्तु ज्ञानोपसर्जनायां प्रवृत्तावेवाकर्मकाज्जानातरात्मनेपदमाहुः। अत एव ते 'संभविष्याव एकस्यामभिजानासि मातरि', अभिजानासि मैत्र कश्मीरेषु वत्स्याम इत्यादौ प्रवृत्त्यर्थाभावादात्मनेपदभावं मन्यन्ते / ज्ञास्ये रात्राविति प्राज्ञः इत्यत्रापि ज्ञाला प्रवर्तिष्ये इति व्याचक्षते / जाने कोपपराङ्मुखीत्यत्र तु 'ज्ञोऽनुपसर्गात् ' इत्यात्मनेपदमिच्छन्तीति /