SearchBrowseAboutContactDonate
Page Preview
Page 639
Loading...
Download File
Download File
Page Text
________________ 626 सिद्धहैमबृहत्पक्रिया. [आख्यातपकरणे असेहे / तमभिभूतवान् तेन वा न पराजित इत्यर्थः / अथवा सहनं क्षमा तितिक्षोपेक्षेति यावत् / प्रकर्षण सहनं प्रसहनम् / तच्च द्विधा शक्तस्याशक्तस्य च / 'भवादृशा चेदधिकुर्वते रतिम् [ समर्था अपि यापेक्षन्ते तदा] निराश्रया हन्त इता मनस्विता' / 'अधिचक्रे न यं हरिः।सोडुमशक्तः सन् तेन न्यत्क्रियते / प्रसहन इति किम् / तमधिकरोति / अधेरिति किम् / शत्रून् प्रकरोति / 551 दीप्तिज्ञानयत्नविमत्युपसंभाषोपमन्त्रणे वदः // 3 / 3 / 78 // दीप्त्यादिष्वर्थेषु गम्यमानेषु वदतेः कर्तर्यात्मनेपदं स्यात् / दीप्तिर्भासनम् / सा च कर्तृविशेषणम् वा वदनक्रियासहचारिणी धात्वर्थो वा केवलैव धात्वर्थः / वदते विद्वान् स्याद्वादे / सम्यग्ज्ञानादनाकुलकथनाच विकसितमुखत्वादीप्यमानो वदतीति / वदन् दीप्यते इति वा / दीप्यत एवेत्यर्थः / ज्ञानमववोधः / तच्च वदिक्रि याया हेतुर्वा विषयि ग फलं वा केवलमेव वा धात्वर्थः / वदते धीमाँस्तत्वार्थे / ज्ञात्वा वदतीति वा, जानाति वदितुमिति वा, वदन् जानातीति वा, जानात्येव वेत्यर्थः / यत्न उत्साहः / स च धात्वर्थस्य विषयो धात्वर्थ एव वा / श्रुते वदते / त्पसि वदते / तद्विषयमुत्साहं वाचाविष्करोति, तत्रोत्सहते इति वेत्यर्थः / नानामतिविमतिः / सा च धात्वर्थस्य हेतुः धात्वर्थ एव वा / धर्मे विवदन्ते / विमतिपूर्वक विचित्रं भाषन्त इति वा विविधं मन्यन्त इति वेत्यर्थः। उपसंभाषोपसान्त्वनमुपालम्भो वा। धात्वर्थ एवायम् / कर्मकरानुपवदते। उपसान्त्वयति उपालभते वेत्यर्थः। उपमन्त्रणं रहसि उपच्छन्दनम् / तदपि धात्वर्थ एव / कुलभार्यामुपवदते / परदारानुपवदते / रहस्युपलोभयतीत्यर्थः / दीप्त्यादिष्विति किम् / यत्किञ्चिद् वदति / 552 व्यक्तवाचां सहोक्तौ // 3 / 3 / 79 // व्यक्ता-व्यक्ताक्षरा वाग् येषां ते व्यक्तवाचः, रूढ्या मनुष्यादय एवोच्यन्ते / तेषां सहोक्तौ संभूयोच्चारणे वर्तमानाद् वदेः कर्तर्यात्मनेपदं स्यात् / संप्रवदन्ते ग्राम्याः। संप्रवदन्ते पिशाचाः। संभूय भाषन्ते इत्यर्थः। व्यक्तवाचामिति किम् / संप्रवदन्ति कुक्कुटाः। संप्रवदन्ति शुकाः। शुकसारिकादीनामपि व्यक्तवाक्त्वात् सहोक्ताविच्छन्त्यन्ये / संपवदन्ते शुकाः सारिका वा / सहोक्ताविति किम् / चैत्रेणोक्ते मैत्रो वदति /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy