________________ आत्मनेपदप्रक्रिया ] सिद्धहैमबृहत्प्रक्रिया. 625 546 श्रुयोऽनामतेः // 3 / 3 / 71 // सन्नन्ताच्छणोतेः कर्तर्यात्मनेपदं स्यात् स चेदाङ्मतिभ्यामुपसर्गाभ्यां परो न भवेत् / शुश्रूषते गुरून् / संशुश्रूषते शब्दान्। अनामतेरिति किम् / आशुश्रूपति / प्रतिशुश्रूषति / चैत्रं प्रतिशुश्रूषत इति प्रतिना संबन्धाभावात् प्रतिषेधो न भवति / 547 स्मृदृशः // 3 // 3 // 72 // स्मृशिभ्यां समन्ताभ्यां कर्तर्यात्मनेपदं स्यात् / सुस्मूर्षते पूर्ववृत्तम् / दिदृक्षते देवम् / 548 शको जिज्ञासायाम् // 3 / 3 / 73 // शकिः स्वभावादन्यधावर्थानुः संहितः प्रवर्तते शक्नोति भोक्तुमन्यद्वेति। ततो ज्ञानानुसंहितार्थात् सन्नन्तात् कर्तर्यात्मनेपदं स्यात् / विद्याः शिक्षते ज्ञातुं शक्नुयामितीच्छतीत्यर्थः। जिज्ञासायामिति किम् / शक्तुमिच्छति शिक्षति / शिक्षि विद्योपादाने इत्यनेनैव सिद्धे आमनुप्रयोगाथै वचनम् / तेन शिक्षांचक्रे इति भवति न तु शिक्षांचकारेति / केचित्तु शकेः सन्नन्तस्यात्मनेपदमनिच्छन्तः शिक्षतेरेव जिज्ञासायामात्मनेपदमन्यत्र च परस्मैपदमिच्छन्ति / 'प्राग्वत् ' / उक्तमेव सन्नन्तप्रक्रियायाम् / 'आमः कृगः' इदमप्युक्तमेव / 549 गन्धनावक्षेपसेवासाहसप्रतियत्नप्रकथनोपयोगे // 3 / 3 / 76 // गन्धनादिष्वर्थेषु वर्तमानात् करोतेः कर्तर्यात्मनेपदं स्यात् / गन्धनं द्रोहाभिप्रायेण परदोषोद्घाटनम् / प्रोत्साहनादिकमन्ये / उत्कुरुते / उदाकुरुते माम् / अध्याकुरुतेजिघांसुरपकत्रं कथयतीत्यर्थः / अवक्षेपणमवक्षेपः कुत्सनं भर्त्सनं वा / दुर्वृत्तानवकुरुते / कुत्सयतीत्यर्थः / श्येनो वर्तिकामपकुरुते-भसंयतीत्यर्थः / सेवाऽनुत्तिः / महामात्रानुपकुरुते-सेवते इत्यर्थः / साहसमविमृश्य प्रवृत्तिः / परदारान् प्रकुरुतेविनिपातमविभाव्य तान् अभिगच्छतीत्यर्थः। प्रतियत्नः सतो गुणान्तराधानम् / एपो दकस्योपस्कुरुते / तत्र गुणान्तरमादधातीत्यर्थः / प्रकथनं कथनमारंभः / प्रकर्षेण कथनं वा। जनवादान् प्रकुरुते-कथयितुमारभते प्रकर्षेण कथयति वेत्यर्थः। उपयोगो धर्मादौ विनियोगः। शतं प्रकुरुते-धर्मादौ विनियुङ्क्ते इत्यर्थः। एष्विति किम् / कटं करोति / अफलवत्कर्थ आरम्भः / 550 अधेः प्रसहने // 3 / 3 / 77 // अधेः परात् करोतेः प्रसहने वर्तमानात् कर्तर्यात्मनेपदं स्यात् / प्रसहनं पराभिभवः परेणापराजयो वा / तं हाधिचक्रे / तं